________________
६५०
राजप्रनीयसूत्रे
टीका- 'नमोऽत्यु णं' इयादि ।
'नमोsस्तु खलु अद्द्भ्यो यावत्संमा' तेभ्यः' इत्यस्य व्याख्या पूर्व गता । इत्थं स सूर्याभो देवो वन्दते नमस्यति । कृतवन्दननमस्कारः स यत्र देवच्छन्दकाभिधान ऑसन विशेषा यत्र च सिद्धायतनस्य वहुमध्यप्रदेशभागस्तत्रोपागच्छति । तत्र स लोमहस्तकं गृहीत्वा तेन लोमहस्तकेन सिद्धायतन वहुमध्यदेशभागं ममानयति, दिव्यजलधारया तम् अभ्युक्षयति, सरसेन गोशीर्षचन्दनेन तत्र पञ्चाङ्गुलितलं मण्डलकम् आलिखति । ततःस तं सिद्धायतनयहुमध्यदेश भागं कचग्रहगृहीत करतलमभ्रष्टविप्रमुक्तेन दशादवर्णेन कुसुमेन मुक्तपुष्पपुञ्जोपचारकलिते करोति, तत्र धूपं च ददाति । ततः स सिद्धायतनस्य दक्षिणद्वारे समागत्य लं महस्तकं गृहीत्वा तेन बारचेट्यौ= द्वारशाखे शालभञ्जिकाः व्यालरूपाणि = सर्परूपाणि च प्रमार्ज्या दिव्यजलधारया अभ्युक्षयति, सरसगोशीर्षचन्दनेन चर्चकान् = अनुलेपनानि ददाति । तेषु च पुनः पुष्पारोहणं माल्यारोहणं यावत् आभरणारोहणं करोति । तथातानि द्वारव्यादीनि आसक्तावसक्तवृत्तमलम्बितमाल्यदामकलापानि करोति यावद् धूप च ददाति ५ । ततः स सूर्याभो देवो यत्रैव दाक्षिणात्ये द्वारे मुखमण्डपो, यत्रैव दाक्षिणात्यमुखमण्डपस्य बहुमध्यदेशभागः, तत्रैव उपागच्छति, उपागत्य लोमहस्तकं गृहीत्वा तेन दाक्षिणात्यमुखमण्डपयहुमध्यदेशभागं प्रमाज्यं दिव्यजलधारया तम् अभ्युक्षयति, सरसगोशीर्षचन्दनेन तत्र पञ्चाङ्गुलितलं मण्डलकम् आलिखति, तथा-तं बहुमध्यदेश भाग कचग्रहगृहीतयावद् मुक्तपुष्पपुञ्जोपचारकलितं करोति, धूपं ददाति ६ । ततः स सूर्याभ देवो दाक्षिणात्यमुखमण्डपस्य पाश्चात्ये द्वारे समुपागत्य लोमहस्तकमादाय तेन द्वारचेट्यौ शालभञ्जिकाः व्यालख्पाणि च प्रमार्जयति, दिव्यजलधारया तानि अभ्युक्षयति, सरसगोशीर्ष चन्दनेन तेषु चर्चकान् ददाति, पुष्प | रोहण यावत् आभरणारोहणं करोति तथा तानि आसक्तावसक्त विपुलवृत्तप्रलम्बित माल्यादमकलापानि करोति, कचग्रहगृग्रहीत- यात्रद्रू-मुक्त पुष्पपुञ्जोपचार कलितानि करोति धूप च ददाति ९ । ततः स सूर्याभो देवो दाक्षिणात्य - मुखमण्डपस्य उत्तरीयस्तम्भपङ्किसमीपे समागच्छति, लोमहस्तकं गृह्णाति, लोमहस्तकेन स्तम्भांच शालभञ्जिकाच व्यालरूपाणि च प्रमार्जयति, दिव्यजलधाराभ्युक्षणादि धूपदानान्तं सर्वं करोति १२ । ततः स दाक्षि• णात्यमुखमण्डपस्य पौरस्त्ये द्वारे समागत्य लोमहस्तकं गृहीत्वा तेन द्वारचेट्यौ= द्वारशाखे च शालभञ्जिकाथ व्यालरूपाणि च प्रमार्जयति । अत
तथा