________________
६०३
सुबोधिनी टीका सू. ८७ सूर्याभविमानस्य देवकृत सज्जीकरणादिवर्णनम् भूमौ लेपनम्, उल्लेपः- टिकादिना भित्यादेर्घवलीकरण, ताभ्यां सहितं सुशोभित गोशीर्ष सरसरक्तचन्दनदर्द रदत्तपञ्चाङ्गु लितल - गोशीर्ष = गोशीर्षचन्दनं सरसं च यद् रक्तचन्दनं ताभ्यां सह ये दर्दरा:= हस्ततलाघाताः, ततो दत्तानि पञ्चाङ्गुलितलानि यस्मिंस्तत्तथाविधं च कुर्वन्ति । तथा केचिद् देवाः सूर्याभ विमानम् उपचितचन्दनकलशम् - उपचिताः = याथातथ्येन व्यवस्थापिताः चन्दनकलशाः = चन्दनचर्चित कलशाः - माङ्गलिककलशाः गृहन्तचतुष्केषु यत्र तत्तादृशं तथा - चन्दनघटसु ततोरणमतिद्वारदेशभागं चन्दनघटाः सुकृताः = सुष्ठु स्थापिताः तोरणेषु बहिर्द्वारेषु प्रतिद्वारदेशभागेषु च यस्य तत्तादृशं च कुर्वन्ति । तथा केचिद् देवाः सूर्याभ' विमानम् आसक्तावसक्तविपुलवृत्तप्रलम्बितमाल्यदाम कलापम् तत्र आसक्तः=भूमिलग्नः अवसत्त:= उपरिलग्नथ विपुलो विशाल: प्रलम्बितः प्रलम्बमानो माल्यदागकलापः=पुष्पमालासमूहो यस्मितत्तथाविधं कुर्वन्ति । तथा - केचिद् देवाः सूर्याभं विमानं पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितम् पश्ञ्चवर्णः सुरभिः सुगन्धयुक्तो मुक्त:= विक्षिप्तो यः पुष्पपुञ्जः = पुष्पसमूहः, तस्य उपचारेण = कल्पनया रचनाविशेषेण कलितं = युक्तं कुर्वन्ति । तथा - केचिद् देवाः सूर्याभं विमानं कालागुरुमवरकुन्दुरुष्कतुरुष्कधूपप्रसरद्गन्धोद्धूताभिरामम् नत्र - कालागुरुः = कृष्णा गुरुः प्रवरकुन्दु रुष्क=चीडाभिधानः सुगन्धिद्रव्यविशेषः, तुरुष्कं = सिलकं धूपः = सुगन्धिद्रव्यसंयोगजनितश्च, एतेषां यः प्रमरन = सर्वतो विसर्पन् उतः = अत्युत्कटो गन्धस्तेन अभिरामं=मनोहरं कुर्वन्ति । 'उद्धृत' शब्दस्य परनिपात आषत्वात् । तथा केचिद् देवाः सूर्या विमानं सुगन्धगन्धित - सुगन्धेन = सौरभेण गन्धित = गन्धयुक्तम्, अत एव - गन्धवत्तिभूत = गन्धवर्तिका सदृश ं कुर्वन्ति । तथा-के चिद् देवाः हिरण्यवर्षम्=अघटितसुवर्णदृष्टि वर्षन्ति केचिद सुवर्ण वर्ष = घटित सुवर्णदृष्टिं वर्षन्ति केचिद् रजतवर्ष = रूप्यदृष्टि वर्षन्ति एवमेव केचिद् वर्षन्ति एवमेव- केचिद् वज्ररत्नदृष्टिम् केचिद् पुष्पवृष्टिम् केचिद् फलदृष्टिम् केचिद् माल्यवृष्टिम् केचिद् गन्धदृष्टिस्, के चिद् चूर्णवृष्टिस्, के चित्, आभरणवृष्टि वर्षन्ति । तथा - केचित् देवा हिरण्यविधिम् = अन्यदेवेभ्यो हिरण्यप्रदानरूपं माङ्गलिकं विधिं भाजयन्ति कुर्वन्ति एवम् = अनेन प्रकारेण केचित् सुवर्णविधि अन्य देवेभ्यः सुवर्णप्रदानरूप माङ्गलिक विधिं भाजयति कुर्वन्ति केचिद् रत्नविधिम् केचित पुष्पविधिम् केचित्-फल विधिम्, के चित्, माल्यविधि, केचित् चूर्ण विधिम् केचिद् वस्त्रविधिं भाजयन्ति, केचिच्च देवा गन्धविधि जयन्ति । तत्र=सूर्याभस्य देवस्य इन्द्राभिषेकावरे केचिद्र देवा आभरण विधिं भानयन्ति = कुर्वन्ति ।
"
3