________________
___ नोवामिगमसूत्र सयसहस्सा तिणि सहस्साई सत्त य सयाई धायइसंडे दीवे तारागण कोडिकोडिणं २ सोभेसु वा ३ ॥सू० ९५॥
छाया-लवणसमुद्रं धातकीखण्डो नामद्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समंतात्संपरिक्षिप्य तिष्ठति धातकोखण्डः खलु भदन्त ! द्वीपः किं समचक्रवालसंस्थितो विषमचक्रवालसंस्थितः ? गौतम ! समचक्रवालसंस्थितो नो विषमचक्रवालसंस्थितः। धातकीखण्डः खलु भदन्त ! द्वीपः कियता चक्रवालविष्कम्भेण कियता परिक्षेपेण प्रज्ञप्तः ? गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेण एकचत्वारिंशद्' योजनशतसहस्राणि दशयोजनसहस्राणि नवचैकपष्ठानि योजनशतानि किंचिद्विशेषोनानि परिक्षेपेण प्रज्ञप्तः । स खलु एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः द्वयोरपि वर्णकः द्वीपसमितः परिक्षेपेण । धातकीखण्डस्य खल भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ? गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि विजयं-वैजयन्तं जयन्तापराजितं च । कुत्र खल भदन्त ! धातकीखण्डस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञसम् ? गौतम ! धातकीखण्डपूर्वपर्यन्ते कालोदसमुद्र पूर्वार्धस्य पश्चिमेन शीताया महानद्याः उपरि अत्र खलु धातकीखण्डद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् तं चेव पमाणं, राजधान्योऽन्यस्मिन् धातकीखण्डद्वीपे द्वीपस्य वक्तव्यता भणितव्या एवं चत्वार्यपि द्वाराणि भणितव्यानि । धातकीखण्डस्य खल भदन्त ! द्वीपस्य २ द्वारस्य च २ एतत् खल कियत्याऽवाधयाऽन्तरं प्रज्ञप्तम् ? गौतम ! दशयोजन शतसहस्राणि सप्तविंशति योजनसहस्राणि सप्तपंचत्रिंशानि योजनशतानि त्रयश्चक्रोशाः द्वारस्य द्वारस्य चाऽवाधयाऽन्तरं प्रज्ञप्तम् । धातकीखडस्य खलु भदन्त ! दीपस्य प्रदेशाः कालोदकं समुद्रं स्पृष्टाः, हंत ! स्पृष्टाः। ते खलु भदन्त ! किं धातकीखण्डे द्वीपे-कालोदसमुद्रे ? ते धातकीखण्डे, नो खलु ते कालोदसमुद्रे एवं-कालोदस्यापि धातकीखण्डद्वीपे जीवा उद्वर्त्य-२ कालोदसमुद्रे प्रत्यायान्ति? गौतम ! संत्येकके प्रत्यायान्ति संत्येकके नो प्रत्यायान्ति एवं-कालोदेऽपि सन्त्येकके प्रत्यायान्ति सन्त्येकके नो प्रत्यायान्ति । तत्केनार्थेन भदन्त ! एवमुच्यते धातकीखण्डो द्वीपो-धातकीखण्डो द्वीपः ? गौतम ! धातकीखण्डे खल द्वीपे तत्र तत्र देशे तत्र तत्र प्रदेशे धातकीवृक्षा धातकीवर्णाः धातकीपण्डाः नित्यं कुसुमिताः यावदुपशोभमानाः उपशोभमानास्तिष्ठन्ति । धातकी महाधातकीवृक्षेषु सुदर्शनप्रियदर्शनौ द्वौ देवौ महद्धिको यावत् पल्योपमस्थितको परिवसतः तत्तेनार्थेन एवमुच्यते० अथोत्तरं च खलु गौतम ! यावन्नित्यः । धातकीखण्डे खलु भदन्त ! द्वीपे कति चन्द्रा अप्रभासन्त-३ कतिसूर्या अतपन्-३ कतिमहाग्रहाश्चारमचरन्-३ कति नक्षत्राणि योगमयुञ्जन्-३ कति तारागणकोटीकोटयोऽशो