________________
जीवामिगमसूत्रे
५५६
गौतम ! गोस्तूपे खलु आवासपर्वते तत्र तत्र देशे तत्र वह्यः क्षुल्लक्षुल्लिकाः यावद् गोस्तूपवर्णानि बहूनि उत्पलानि तथैव यावद्गोस्तुपः तत्र तत्र देवो महर्द्धिको यावत् पल्योपमस्थितिकः परिवसति । स खलु तत्र चतुर्णां सामानिकसहस्राणां यावद् गोस्तूपस्याऽऽवासपर्वतस्य गोस्तूपायाः राजधान्या यावद् विहरति । तत्तनार्थेन यावद नित्यः । राजधानी पृच्छा - गौतम - ! गोस्तूपस्या- ऽऽवासपर्वतस्य पूर्वेण तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतित्रज्या - ऽन्यस्मिन् लवणसमुद्रे तदेव प्रमाणं- तथैव सर्वम् । कुत्र खलु भदन्त - ! शिवकस्य वेलंधरनागराजस्य दकाभास नामक आवासपर्वतः प्रज्ञप्तः - 2 जंबूद्वीपे खलु द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन लवणसमुद्रं द्विचत्वरिंशद्शो जनसहस्राण्यवगाह्याऽत्र खल शिवकस्य वेलं धरनागराजस्य दकोभासनामक आवास पर्वतः प्रज्ञप्तः तदेव प्रमाणं यद्गोस्तूपस्य नवरं सर्वाकमयोऽच्छो यावत्प्रतिरूपो यावदर्थों भणितव्यः । गौतम ! दकोभासः खलु आवासपर्वतः ‘लवणसमुद्रेऽष्टयोजनिक क्षेत्रे दकं सर्वतः समन्तात् [ अवभासयति - उद्योतयति - तापयति - प्रभासयति । शिवकोऽत्र देवो महर्द्धिको यावत् राजधानी सा दक्षिणेन शिविका दकाभासस्य शेषं तदेव । कुत्र खलु भदन्त 1. शंखस्य वेलंधरनागराजस्य शंखो नामाऽऽवासपर्वतः प्रज्ञप्तः ? गौतम ! जंबुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमेन द्विचत्वारिंशतं योजन सहस्राण्यवगाह्याऽत्र खलु शंखस्य वेलंधरस्य शंखो नामाऽऽवासपर्वतः तदेव प्रमाणम्, नवरं सर्वरत्नमयोऽच्छ ः ० । स खल्वेकया पद्मवर वेदिकया, एकेन च वनपण्डेन यावदर्थः वहयः क्षुल्लक्षुल्लिका यावद् वहून्युत्पलानि शंखाभानि - शंखवर्णानि - शंखवर्णाभानि शंखोऽत्र देवो महर्द्धिको यावद् राजधानी पश्चिमेन शंखस्यावासपर्वतस्य शंखा नाम्नी राजधानी तदेव प्रमाणम् । कुत्र खलु भदन्त ! मनःशिलकस्य वेलंधरनागराज - स्योदकसीमो नामावासपर्वतः प्रज्ञप्तः ? गौतम ! जंबूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरेण लवणसमुद्रं द्विचत्वारिंशद् योजनसहस्राण्यवगाह्याऽत्र खलु मनःशिलकस्य वेलंधरनागराजस्योदकसीमो नामाऽऽवासपर्वतः प्रज्ञप्त स्तदेव प्रमाणाम्, नवरं सर्वस्फटिकमयोऽच्छो यावदर्थः, गौतम ! दकसीमे खलु - आवासपर्वते 'शीता शीतोदयोः महानयोस्तत्रगतानि स्रोतांसि प्रति हन्यन्ते तत्तेनार्थेन यावन्नित्यः, मनःशिलकोऽत्र देवो महर्द्धिको यावत् स खलु तत्र चतुर्णां सामानिक० यावद्विहरति । कुत्र खलु भदन्त ! मनःशिलकस्य वेलंधरनाग"राजस्य मनः शिला नाम्नी राजधानी ? गौतम ! दकसीमस्य आवासपर्वतस्योतरेण तिर्यगसंख्येय० अन्यस्मिन् लवणेऽत्र खलु मनःशिलिकानाम्ती राजधानी प्रज्ञप्ता तदेव प्रमाणं यावत् - मनःशिलको देवः कनकांकरत्नस्फटिकमयाश्च "वेलंधराणामावासाः । अनुवेलंधरराजानां पर्वता भवन्ति रत्नमयाः ||८०८६ ॥
An