________________
१५३६
जीवाभिगमस्ये सव्वत्थोवा पंचिदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया वेइंदिया विसेसाहिया तेउकाइया असंखेज्जगुणा पुढवीकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अणिदिया अणंतगुणा वणस्सइकाइया अणतगुणा। ति ॥ सू० १५४ ॥
छाया-तत्र खलु ये ते एवमुक्तयन्तो दशविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तः तयथा-पृथिवीकायिकाः अकायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः । पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तन्मुत्कर्षणाऽसंख्येयं कालम्-असंख्येया उत्सर्पिण्यवसर्पिग्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः। एवमप्तेजोवायुकायिकः। वनस्पतिकायिकः खलु भदन्त !० गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः। द्वीन्द्रियः खलु भदन्त !० जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण संख्येयकालम् । एवं-त्रीन्द्रियोऽपि, चतुरिन्द्रियोऽपि, पञ्चेन्द्रियः खलु भदन्त !०, गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कपेण सागरोपमसहस्रं सातिरेकम् । अनिन्द्रियः खलु भदन्त !० अनिन्द्रिय इति कालतः कियच्चिरं भवति ? गौतम ! सादिकोऽपर्यवसितः। पृथिवीकायिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तमुहूर्तन्मुकर्षेण वनस्पतिकालः। एवमष्कायिकस्य-तेजस्कायिकस्य--वायुकायिकस्य वनस्पतिकायिकस्य खलु भदन्त ! अन्तर कालतः कियच्चिरं भवति ? गौतम ! यैव पृथिवीकायिकस्य संचिट्ठणा, द्वि त्रि चतुरिन्द्रिय पञ्चेन्द्रियाणामेतेषां चतुर्णामपि अन्तरं जघन्येनाऽन्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । अनिन्द्रियस्य , खलु भदन्त ! अन्तरं कालतः कियचिरं भवति ? गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! पृथिवीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरि‘न्द्रियाणां पञ्चेन्द्रियाणामनिन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा-बहुका वा-तुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेपाधिकाः द्वीन्द्रिया विशेपाधिकाः तेजस्कायिका असंख्येयगुणाः पृथिवीकायिका विशेपाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिका अनिन्द्रिया अनन्तगुणाः वनस्पतिकायिका अनन्तगुणाः इति ॥९० १५४॥