________________
१०६०
जीनाभिगमच्ने सौधर्मेशानयोः खलु भदन्त ! कल्पयोः देवानां किं मानी शरीररावगाहना प्रज्ञप्ता ? गौतम ! द्विविधा शरीरावगाहना प्रज्ञाशा तयश-अवधारणीया चोत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्यनाऽङ्लस्याऽसंख्येयभागम् उत्कर्पतः सप्तरत्नयः, तत्र खल्लु-या सा उत्तरक्रिया सा जघन्यतोऽगुलस्य संख्येयभागम् उत्कर्पण योजनशतसहस्त्रम् एवमेकाऽपसारणन यावदनुतराणामेका रत्निः, ग्रैवेयकाऽनुत्तराणामेकं भवधारणीयं गरीरम, उत्तरवैक्रियं नास्ति । सौधर्मशानयोः खलु देवानां शरीराणि कि संहननानि मज्ञप्तानि ? गौतम ! पण्णां संहननानाम् असंहननानि प्रज्ञप्तानि ? नेवाऽस्थि नैवशिरा नापि स्नायू पि-नैव संहननानि, ये पुद्गला इष्टाः कान्ता यावत् ते तेषां संघाततया परिणमन्ति यावदनुत्तरोपपातिकाः । सौधर्मशानयो देवानां शरीरकाणि कि संस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि शरीराणि-भवधारणीयानि च उत्तरक्रियाणि च, तत्र खल यानि तानि भवधारणीयानि तानि समचतुरस्त्रसंस्थानसंस्थितानि प्रज्ञप्तानि, तत्र खलु यानि तानि-उत्तरवैक्रियाणि तानि नानासंस्थानमंस्थितानि प्रज्ञप्तानि, यावदच्युतः, अबैंक्रियाणि ग्रेवेयकाऽनुत्तराणि, भवधारणीयानि यानि समचतुरस्रसंस्थानसंस्थितानि, उत्तरवैक्रियं नास्ति । सौधर्मेशानयोर्देवाः कीदृशाः वर्णेन प्रज्ञप्ताः? गौतम ! जनकत्वरक्ताभाः वर्णेन प्रज्ञप्ताः, सनत्कुमारमाहेन्द्रयोः खलु पद्मपक्ष्मगौराः वर्णेन प्रज्ञप्ताः । ब्रह्मलोके खलु भदन्त ! गौतम !....मधुकवर्णाभाः वर्णेन प्रज्ञप्ताः, एवं यावत्-अवेयकाः अनुत्तरोपपातिकाः परमशुक्लाः वर्णेन प्रज्ञप्ताः । सौधर्मेशानयोः खलु भदन्त ! कल्पयोर्देवानां शरीराणि कीदृशानि गन्धेन प्रज्ञप्तानि ? गौतम ! स यथा नामकः कोष्ठपुटानामिति वा-तदेव सर्वं यावद् मन आमतरकाण्येव गन्धेन प्रज्ञप्तानि, यावदनुत्तरोपपातिका । सौधर्मेशानयोर्देवानां शरीराणि कीदृशानि स्पर्शन प्रज्ञसानि ? गौतम ! स्थिरमृदुकस्निग्धसुकुमालछवि स्पर्शेन प्रज्ञप्तानि, एवं यावदनुत्तरोषपातिका । सौधर्मेशानदेवानां कीदृशाः पुद्गलाः उच्छ्वासतया परिणमन्ति ? गौतम ! ये पुद्गला इष्टाः कान्ता यावत् ते तेपामुच्छ्वासतया परिणमन्ति यावदनुत्तरोपपातिका, एवम् आहारतयाऽपि यावदनुत्तरोपपातिका । सौधर्मेशानदेवानां कतिलेश्याः प्रज्ञप्ता, गौतम ! एका तेजोलेश्या प्रज्ञप्ता । सनत्कुमारमाहेन्द्रयोरेका पद्मलेश्या, एवं-ब्रह्मलोकेऽपि पद्मा, शेपेषु एका शुक्ललेश्या, अनुत्तरोपपातिकानामेका परमशुक्ललेश्या । सौधर्मशानदेवाः किं सन्याप्टयोमिथ्यादृष्टयः-सम्यमिथ्यादृष्टयः ? त्रयोऽपि, यावदन्तिभवेयका देवाः
सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यमिथ्यादृष्टयोऽपि, अनुत्तरोपपातिकाः - सम्यग्दृष्टयो नो मिथ्यादृष्टयो नो सम्यगमिथ्यादृष्टयः । सौधर्मशानकाः किं