________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१२१ देवविमानपृथिव्याः वाहल्यादिकम् १०५९ तद्यथा-कृष्णानि, नीलानि, लोहितानि, पीतानि, शुवलानि, सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, नीलानि यावत् शुक्लानि । ब्रह्मलोकलान्तकयोरपि त्रिवर्णानि, लोहितानि यावत् शुक्लानि, महाशुक्रसहस्रारयोर्द्विवर्णानि, पीतानि च शुक्लानि च, आनतप्राणतारणाच्युतेषु शुक्लानि, ग्रैवेयकविमानानि शुक्लानि, अनुत्तरोपपातिकविमानानि परमशुक्लानि वर्णेन प्रज्ञप्तानि । सौधर्मेशानयोः खलु भदन्त ! कल्पयोविमानानि कीदृशानि प्रभया प्रज्ञप्तानि ? गौतम ! नित्यालोकानि नित्यो
योतानि स्वयं प्रभाणि प्रज्ञप्तानि यावदनुत्तरोपपातिकविमानानि नित्यालोकानि नित्योदधोतानि-स्वयंप्रभाणि प्रज्ञप्तानि । सौधर्मेशानयोः खलु भदन्त ! कल्पयोर्विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ? गौतम ! तयथा नाम कोष्ठपुटमिति वा यावत् गन्धेन प्रज्ञप्तालि, एवं यावत्-इतः इष्टतरकाणि चैव यावदनुत्तरविमानानि । सौधर्मशानयोः खलु भदन्त कल्पयोविमानानि कीदृशानि स्पर्शण प्रज्ञप्तानि, गौतम ! तद्यथा नाम-आदर्श इति वा, रुत इति वा, सर्वः स्पर्टी भणितव्यो यावदनुत्तरोपपातिकविमानानि । सौधर्मेशानयोः .खल भदन्त ! कल्पयोर्विमानानि किं महान्तानि प्रज्ञप्तानि गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां स एव गमो यावत् पडूमासान् व्यतिव्रजेत् यावदस्त्येककान् विमानावासान नो व्यतिव्रजेत यावदनुत्तरोपपातिकविमानानि, अस्त्येककं विमानं व्यतिव्रजेत् अस्त्येककं विमानं नो व्यतिब्रजेत्। सौधर्मशानयोः खलु भदन्त ! कल्पयोविमानानि कि मयानि प्रज्ञप्तानि ? गौतम ! सर्वरत्नमयानि प्रज्ञप्तानि, तत्र खलु वहवो जीवाः पुद्गलाश्चाऽपक्रामन्ति व्युत्क्रामन्ति चीयन्ते उपचीयन्ते शाश्वतानि खलु तानि विमानानि द्रव्यरार्थतया यावत्स्पर्शपर्यायैरशाश्वतानि यावदनुत्तरोपपातिक विमानालि । सौधर्मेशानयोः खलु देवाः कुत-उत्पद्यन्ते, उपपातोनेतव्यो यथा व्युत्क्रान्तौ तिर्यग्मनुष्येषु पञ्चन्द्रियेषु संमूच्छिमवर्जितेषु, उत्पातो व्युत्क्रान्तिगमेन यावदनुत्तरोपपातिकाजीवाः । सौंधर्मेशालयोर्देवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! जघन्येन-एको वा-द्वौ वा-त्रयो वा--उत्कर्षण संख्येया वाऽसंख्येया वा उत्पद्यन्ते, एवं यावत् सहसार, आनतादि अवेयकाः अनुत्तराश्च एको वा-द्वौ वा-त्रयो बा उत्कर्षेण संख्येया वा-ऽसंख्येया वा उत्पद्यन्ते । हे भदन्त ! सौधर्मेशानयोः खलु देवाः समये २ अपहियमाणाः-२ कियताकालेना-ऽपहताः स्युः ? गौतम ! ते खल्व संख्येयाः समये-२ अपहियमाणाः असंख्येयाभिरुत्सपिणी-अपरार्पिणीभिः अपहियन्ते नैव खलु अपहृताः स्युः यावत्-सहस्रारः आनतादिकेषु चतुर्वपि ग्रैवेथकेषु-अनुत्तरेषु च समये-२ यावत् कियत्कालेनाऽपहृताः स्युः ? गौतम ! ते खल्वसंख्येयाः समये-२ अपइयमाणाः पल्योपमस्याऽसंव्यातमागमात्रणाऽपहियन्ते, नैव खल्वपहृताः स्युः।