________________
प्रमेयचन्द्रिका टीका श०१८ उ०१ सू०२ चरमाचरमत्वे जीवद्वारम् ५८७ रमः स्यादचरमः । एवं यावद्वैमानिकः, सिद्धो यथा जीवः । जीवाः खलु भदन्त ! पृच्छा, गौतम ! नो चरमा अचरमा नयिका चरमा अपि अचरमा अपि, एवं यावद्वैमानिकाः । सिद्धा यथा जीवाः ।। आहारका सर्वत्रैकत्वेन स्यात् चरमः स्यादचरमः पृथक्त्वेन चरमा अपि अचरमा अपि, अनाहारको जीवः सिद्धश्च एकत्वेनापि पृथक्त्वेनापि नो चरमोऽचरमः शेषस्थानेषु एकत्वपृथक्त्वेन यथा आहारकः ।२। भवसिद्धिको जीवपदे एकत्वपृथक्त्वेन चरमो नो अचरमः शेषस्थानेषु यथा आहारकः । अमवसिद्धिका सर्वत्र एकत्वपृथक्त्वेन नो चरमोऽचरमः । नो भवसिद्धिक नो अभवसिद्धिको जीवः सिद्धश्च एकत्वपृथक्त्वेन यथा अभवसिद्धिकः ।३। संज्ञी यथा आहारका एवम् असंज्ञी अपि, नो संझी नो असंज्ञी जीवपदे सिद्धपदे चाचरमः, मनुष्यपदे चरमः एकत्यपृथक्त्वेन ।४। सलेश्यो यावत् शुक्ललेश्यो यथा आहारका नारं यस्य या अस्ति, अलेश्यो यथा नो संज्ञि नो असंज्ञी ।५। सम्पष्टि र्यया अनाहारका, मिथ्याष्टियथाऽऽहारकः सम्यग्मिथ्यादृष्टिः एकेन्द्रियविकलेन्द्रियवर्ज स्यात् घरमः स्यादचरमः, पृथक्त्वेन चरमा अपि अचरमा अपि ६। संयतो जीवो मनुष्यश्च यथा आहारक', असंयतोऽपि तथैव संयतासंयतोऽपि तथैव नबर यस्य यदस्ति नो संयत नो असंयत नो संयतासंयतः यथा नो भवसिद्धिक नो अभवसिद्धिकः ७) सकषायी यावल्लोभकपायी सर्वस्थानेषु यथा आहारका, अपायी जीवपदे सिद्धपदे च नो चरमोऽचरमा, मनुष्यपदे च स्याचरमः स्यादचरमः ।८। ज्ञानी यथा सम्यग्दृष्टिः सर्वत्र, आभि• निबोधिकज्ञानी यावन्मनापर्यवज्ञानी यथा आहारका नवरं यस्य यदस्ति, केवल ज्ञानी यथा नो संज्ञि नो असंज्ञो, अज्ञानी यावद्विभङ्गज्ञानी यथा आहारका ९॥ सयोगी यावत्काययोगी यथा भाहारका यस्य यो योगोऽस्ति, अयोगी यथा नो संक्षि नो असंज्ञी ।१०। साकारोपयुक्तोऽनाकारोपयुक्तश्च यथा अनाहारका ।११। सवेदको यावन्नपुंसकवेदको यथा आहारका, अवेदको यथा अपायी ।१२। सशरीरी यावत् कार्मणशरीरी यथा आहारका, नवरं यस्य यदस्ति, अशरीरी यथा नोभवसिद्धिक नोभवसिद्धिकः ॥१३॥ पश्चमिः पर्यातिभिः पञ्चभिरपर्याप्तिभिर्यथा आहारकः, सर्वत्र एकत्व पृथक्त्वेन दण्डका भणितव्याः॥१४॥ इयं लक्षणगाथा-यो यं प्राप्स्यति पुनर्भा स तेनाचरमो भवति ।
_____ अत्यन्त वियोगो यस्य, येन भावेन स चरमः ॥१॥ तदेवं भदन्त ! तदेवं भदन्त । इति यावद्विहरति ।मु० २॥
अष्टादशशतके प्रथमोद्देशकः समाप्तः ॥