________________
भगवती सूत्रे
૩૬
छाया - आत्मा भदन्त ! रत्नप्रभा पृथिवी, अन्या रत्नप्रभा पृथिवी गौतम ! रत्नप्रभा पृथिवी स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यम् - आत्मा इतिच नो आत्मा इति, तत् केनार्थेन भदन्त । एवमुच्यते - रत्नप्रभा पृथिवी स्यात् आत्मा स्यात् नो आत्मा, स्यात् अवक्तव्यम् - आत्मा इति य नो आत्मा इति च ? गौतम ! आत्मनः आदिष्टे आत्मा, परस्य आदिष्टे नो आत्मा, तदुभयस्य आदिष्टे अवक्तव्यं - रत्नप्रमापृथिवी आत्मा इति च, नो आत्मा इति च, तत् तेनार्थेन तदेव यावत् नो आत्मा इति च, आत्मा भदन्त ! शर्कराप्रमा पृथिवी, यथा रत्नप्रभा पृथिवी तथा शर्करामभाऽपि, एवं यावत् अधः सप्तमी, आत्मा भदन्त ! सौधर्मः कल्पः पृच्छा, गौतम । सौधर्मः कल्पः स्यात् आत्मा, स्यात् नो आत्मा यावत् नो आत्मा इति च तत् केनार्थेन भदन्त ! यावत् नो आत्मा इति च ? गौतम ! आत्मनः आदिष्टे आत्मा, परस्य आदिष्टे नो आत्मा तदुभयस्य आदिष्टे अवक्तव्यम् - आत्मा इति च नोआत्मा इति च तत् तेनार्थेन तदेव यावत् नो आत्मा इति च, एवं यावत् अच्युतः कल्पः, आत्मा भदन्त | ग्रैवेयकविमानः, अन्यो ग्रैवेयकविमानः' ? एवं यथा रत्नप्रभा तथैव, एवमनुत्तरविमानः अपि, एवम् ईषत्प्राग्रमारा अपि, आत्मा भदन्त ! परमाणुपुद्गलः, अन्यः परमाणुपुद्गलः ? एवं यथा सौधर्मः कल्पस्तथा परमाणुपुद्गलोsपि भणितव्यः । आत्मा भदन्त ! द्विदेशिकः स्कन्धः, अन्यो द्विप्रदेशिकः स्कन्धः ? गौतम ! द्विप्रदेशिकः स्कन्धः स्यात् आत्मा १, स्यात् नो आत्मा २, स्वात् अवक्तव्यम् - आत्मा इति च, नो आत्मा इति च ३ स्यात् आत्मा च नो आत्मा च ४, स्यात् आत्मा च अवक्तव्यम् - आत्मा इति च नो आत्मा इति च ५, स्यात् नो आत्मा च अवक्तव्यम् आत्मा इति च, नो आत्मा इति च ६, वत् केनार्थेन भदन्त ! एवमुच्यते तदेव यावत् नो आत्मा इति च अवक्तव्यम् - आत्मा इति च नो आत्मा इति च ? गौतम ! आत्मनः आदिष्टे आत्मा १, परस्य आदिष्टे नो आत्मा २, तदुभयस्य आदिष्टे अवक्तव्यम् - द्विदेशिकः स्कन्धः भात्मा इति च नोआत्मा इति च २, देश आदिष्टः सद्भावपर्यवः, देश आदिष्टः असद्भावपर्यवो द्विपदेशिकः स्कन्धः आत्मा च नो आत्मा च ४, देश आदिष्टः सद्भाव पर्यवः, देश आदिष्टस्तदुभयपर्यवो द्विदेशिकः स्कन्धः आत्मा च अवक्तव्यम् आत्मा इति च नो आत्मा इति च ५, देश आदिष्टः असद्भावपर्ययः, देश आदिष्टः तदुभयपर्यवो द्विमदेशिकः स्कन्धो नोआत्मा च अवक्तव्यम् - आत्मा इति च नो आत्मा इति च ६, तत् तेनार्थेन तदेव यावत्-नो आत्मा इति च ।