________________
४२८
स्थानास्त्र आत्मना शरीरे स्पृष्टे सति शरीरस्य स्फुरण भवतीत्यत आह-'एव' मित्यादि, एवं-पूर्वपकारेणैवास्याप्यालापकः पठनीयः, तत्र देशेनापि कियद्धिरप्यात्मप्रदेशैरिलिकागतिकाले, सर्वेणापि सर्वैरप्यात्मप्रदेशैः कन्दुकगतिकाले शरीर स्फोरयित्वा-सस्पन्दं कृत्वा निर्याति । अथवा शरीरं देशेन-देशतः शरीरैकदेशमित्यर्थः पादादि निर्याणकाले स्फोरयित्वा, सर्वेण-सर्वतः सर्व शरीरं सर्वाङ्गनिर्याणावसर इत्यर्थः २॥ स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह-' एव'-मित्यादि, एवं-तथैव देशेन-आत्मैकदेशेन शरीरं स्फोटयित्वा सचेतनतया स्फुरणलिङ्गत इलिकागतो स्फुटं कृत्वा, सर्वेण सर्वात्मना कन्दुकगतौ स्फुटं कृत्वेति ! यद्वा-शरीरं देशेनदेशतः सात्मकतया पादादिना निर्याणकाले स्फुटं कृत्वा, सर्वेण-सर्वतः-सर्वाङ्ग निर्याणकाले इति । अथवा-स्फोटयित्वा-विशीर्ण कृत्या, तत्र देशेन-अक्ष्यादि विधातेन, सर्वेण-सविशरणेन दीपवत् विद्युल्लतावच्च ३। शरीरं सात्मकतया स्फु. टीकुर्वन् कश्चित्तत्संवर्तनमपि करोतीत्याह-'एव' मित्यादि, एवं-तथैव संवयं संकोच्य शरीरं देशेन-इलिकागतौ शरीरस्थितप्रदेशैः, सर्वेण-सर्वात्मना कन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति । यद्वा-शरीरम्-उपचाराद् दण्ड योगाद्दण्डपुरुषवत् शरीरिणमित्यर्थः, तत्र देशेन-देशतः संवर्तनं म्रियमाणस्य संसारि जीवस्य पादादिगतजीवप्रदेशसंहारात्, सर्वेण-सर्वतस्तु निर्वाणं गच्छतः प्राणिनः। अथवा-शरीरं देशेन-हस्तायेकदेशसंकोचनेन संवयं सर्वेण-शरीरसंकोचकपिपीलिकादि जीवविशेषवत् सर्व शरीरसंकोचनेन संवत्यति४ । आत्मनश्च संवतनं कुर्वन् जीवः शरीरस्य निवर्त्तनं करोतीत्याह-'एव' मित्यादि, एव-पूक्तिपकारेण
आत्मा द्वारा शरीर के स्पृष्ट होने पर शरीर का स्फुरण होता है इसी बात को अब सूत्रकार कहते हैं-इस सम्बन्ध में आलाप पूर्वोक्त रूप से ही कहना चाहिये-अर्थात् इसका गति की तरह कितनेक आत्म प्रदेशों को स्पन्दित करके जीव शरीर से बाहर निकलता है तथा कन्दु. कगति की तरह युगपत् समस्त आत्मप्रदेशों को स्पन्दित करके वह शरीर से बाहर निकलता है इसी तरह से एकदेश और सर्वदेश की તેઓ સિદ્ધોમાં ઉત્પન્ન થાય છે આત્મા દ્વારા શરીરને પૃષ્ટ કરાવાથી શરીરનું કુરણ થાય છે, એજ વાતને હવે સૂત્રકાર પ્રકટ કરે છે
આ વિષયને અનુલક્ષીને પૂર્વોક્ત કથન જ ગ્રહણ કરવું જોઈએ. એટલે કે ઈલિકા (કૃમિ વિશેષ) ગતિની જેમ કેટલાક આત્મપ્રદેશને સ્પેન્દ્રિત કરીને જીવ શરીરમાંથી બહાર નીકળે છે, તથા કન્ક ગતિની જેમ એક સાથે સમસ્ત આત્મપ્રદેશને સ્પેન્દ્રિત કરીને તે શરીરમાંથી બહાર નીકળે છે. એ જ પ્રમાણે