________________
• ७७६
सूत्रकृताङ्गसूत्रे
छाया - मगांव खलु उदाह आयुष्मन् उदक । यः खलु श्रमणं वा माहने वा परिमापते मैत्रीं मन्यते, आगम्य ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रं पापानां कर्मणामकरणाय स खलु परलोकमन्थनाय तिष्ठति । यः खलु श्रम
मानं वा न परिभापते मैत्रीं मम्यते आगम्य ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रं पापानां कर्मणामकरणाय स खलु परलोकविशुया तिष्ठति, ततः खलु स उदकः पेढालपुत्रो भगवन्तं गौतममनादि • यमाणः यस्या एव दिशः प्रदुर्भूतः तामेव दिशं प्रधारितवान् गमनाय । भगवांश्च खल उदाह-आयुष्मन् उदक | यः खलु तथाभूतस्य श्रमणस्य वा माइन1 स् वा अन्तिके एकमपि आये धार्मिकं सुवचनं श्रुत्वा निशम्य आत्मनश्चैव सूक्ष्मया प्रत्युपेक्ष्य अनुत्तरं योगक्षेमपदं लम्भितः सन् सोऽपि तावत् तमाद्रियते परिजानाति, वन्दते नमस्यति सत्कारयति संमानयति यावत् कल्याणं मङ्गलं देवतं चैत्यं पर्युपास्ते । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममेवमवादीत् । एतेषां खलु भदन्त ! पदानां पूर्वमज्ञानाद् अश्रवणतयाऽवोध्याऽनभिगमेन अदृष्टाना. मश्रुतानामस्मृतानामविज्ञातानामन्युत्कृतानाम निगूढानामविच्छिन्नानामनिसृष्टाना - म निर्व्यूढानामनुपधारितानामेपोऽर्थो न श्रद्धितः न प्रतीतः न रोचितः एतेषां खलु भदन्त ? पदानामिदानीं ज्ञाततया श्रवणतया वोध्या यावदुपधारणतया एतम श्रदधामि प्रत्येमि रोचयामि एवमेव तद्यथा यूयं वदथ । ततः खलु भगवान् गौतम उदकं पेढापुत्रमेवमवादीत् श्रवत्स्व खलु अर्य ! प्रतीहि खलु आर्य ! रोचय खलु आयें ! एवमेतद् यथा खलु वयं वदामः । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममेवमवादीत् इच्छामि खलु मदन्त ! युष्माकमन्तिके चातुर्यामाद्धर्मात् पञ्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसम्पद्य खलु विहर्तुम् । ततः खलु भगवान् गौतम उदकं पेढालपुत्रं गृहीत्वा यत्रैव श्रमणो भगवान् महावीर स्तत्रैव उपागच्छति । उपागत्य ततः खलु स उदकः पेढाळपुत्रः श्रमण भगवतं महावीरं त्रिःकृत्वः आदक्षिणां प्रदक्षिणां कृत्वा वन्दते नमस्यति, वन्दिला नमस्थित्वा एवमवादीत् इच्छामि खलु भदन्त ! तवान्तिके चतुर्यामाद्धर्मात् पञ्चमहाव्रतिकं समतिक्रमणं धर्ममुपसंपद्य खलु विहर्तुम् ततः खलु श्रमणो भगवान् महावीर उदकमेवमवादीत् यथासुखं देवानुप्रिय | मा प्रतिबन्धं कुरु ततः खलु सउदकः पेढालपुत्रः श्रमणस्य भगवतो महावीरस्य अन्तिके चतुर्याशद्धर्मात् पञ्च महातिकं समतिक्रमणं धर्ममुपसंपद्य खलु विहरतीति ब्रवीमि ॥०१४-८९॥
॥ इति नालन्दाख्यं सप्तमम् अध्ययनं समाप्तम् || सूत्रकृताङ्गसूत्रस्य द्वितीय श्रुतस्कन्धः समाप्तः ॥२७॥