________________
॥श्री॥ सति शिरोमणि केशरवाई महासतीजी तथा विदुषि वसुमतिवाई
इन्द्रवज्रा छन्दः पर्यायतो ज्येष्टतया स्वगन्छे चित्तैकधीरा सरलस्वभावा। श्री 'पार्वतीबाई' विशुद्धभावैः विराजते सर्व सतीषु मुख्या ॥१॥ प्रवर्तिनी 'केशरवाई' गच्छे गच्छस्य कार्येनिशं समर्था । चारित्रसंरक्षणहेतुकार्ये प्रवर्तते प्रेरयतीच साध्वीः ॥२॥ विचक्षणायाऽति विनीतबुद्धिः मोक्षस्य मार्गे सततं प्रयाति । विनीतभावेन करोति सेवा 'प्रभावतीबाई' गुणैगरिष्ठा ॥३॥
दुतविलम्बितछन्दः वसुमती शिवमागविधायिनी विमलभाव सतीषु शिरोमणिः । अमलशासनतच्चविकाशिनी विजयते गुणगौरवशासने ॥४॥
अनुष्टुप् छन्दः द्योतते 'दमयन्तीयं' संयमाराधनोद्यता । विनीतभावसम्पन्ना शुद्धा गुणवती सती ।।५।।
स्वकार्यदक्षा परकायदक्षा विवेकढक्षा विनयेषु दक्षा । सेवाम दक्षा यतनासु दक्षा श्री दीक्षिताबाई' सतीसु दक्षा ॥६॥ भद्राऽम्ति भावेन विनोतभावा सद्वतिनी या सरलम्बमावा । 'हीराऽभिधाना' चिरस्वभावा चकास्ति साम्बीगुणरत्नभाभिः ||७|| विशुद्धभावा सरलस्वभावा गीलप्रभावा विपये विरक्ता । समाधिमावं भजतीति नित्यं विनम्रभावा 'सविता' सती या ||८|| विनीतताभावममाश्रयेण सेवाऽधिकारेषु परायणा या । 'प्रवीणवाई' विनये विवेके प्रावीण्यभावं विदधाति नित्यम् ॥९॥
अनुष्टुप्छन्द:विनयादिगुणोमिभिः संयुता सरला सती। 'उर्मिलावार्ट' मुदिता सेवामावेषु वर्तते ॥१०॥