________________
श्री
सती शिरोमणि तारावाई
इन्द्रवज्राच्छंद:
" सती प्रधाना सुकृपा निधाना सतीषु सारा सुविचारधारा | विभाति गच्छे दरियापुरीये 'तारा सती' स्वच्छतराविभूतिः ॥१॥ “ भद्राऽस्तिभावेन विनीतभावा सवर्तिनी या सरलस्वभावा । 'atesभिधाना' रुचिरस्वभावा चकास्ति साध्वी गुणरत्नभाभिः ||२|| “ यमेषु मग्ना नियमेषु लग्ना भग्नानयाकाऽपि तपस्तटान्तात् । सेवाशतैरञ्जयतीव साध्वीर्विभाति सेयं 'विमला' सतीषु ||३|| अनुष्टुपूच्छंदः 'इन्दुवाई' विभातीन्दोः कलेव विमला सदा । विनम्रभक्तिसम्पन्ना साध्वीमध्ये विराजते ||४||
इन्द्रवज्राच्छंद
धर्मे सुशीला नियमे सुशीला व्रते सुशीला विनये सुशीला | चारित्रशीला यतिधर्मशीला नाम्ना 'सुशीला' जगति प्रसिद्धा ||५|| उपा विशेषा शुभधर्मलेश्या न दोपशेपा विनिवृत्तकामा | वाच्छाविशिष्टा विनयादिवृत्तौ यस्या 'उपा' ऽऽस्ते शुभनामधेयम् ||६|| हंसस्य चचुर्जलदुग्धभेदं करोति शास्त्रे सदसद्विवेकम् । कुर्या कथं स्वं स्वजनं विवोध्य 'हंसाबाई' सती रूपमकारि किंनु ॥७॥ न लोचने मे स्वहिताय गेहे विचारयन्ती समवस्थिता या । प्रवज्जाता शिवशुद्धमार्गे 'सुलोचनाबाई' सती प्रसिद्धा ||८|| सुखस्य दुःखस्य च कारणं य-जाते तु तस्मिन्नपि हर्पमेति । sri aurat विराजते या चकास्ति 'हवाई' शुभनामतस्याः ||९||
वसन्ततिलका
सम्यक्त्ववर्पणपरास्वपराऽर्थसिद्धचे औदार्यभावमवलंब्य मुदं वहन्ती । सेवा - भक्ति - विनया - Sम्बु- धरा धराया - वर्तिष्यतीति गुरुभिर्घुपिताऽस्ति 'वर्षा' | १०
वाई 'मनोरमा' साध्वी, धर्मकार्य मनोरमा | शुद्धभावेन संयुक्ता, शास्त्रस्वाध्यायतत्परा ॥११॥ 'उन्दिरावाई' साध्वी च साध्वाचारपरायणा । विनम्रा भक्तिभावेन, पकायप्रतिपादिका ॥ १२॥