SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सर्वसिद्धान्तस्तवः [मू०] नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ ( उपेन्द्रवज्रा) (अव०) ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरो गुरुगौरवः ॥१॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिन-नव-स्तव-निर्माण-पुरस्सरनिरवद्याहार-ग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवी वचसाऽभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठन-विलोकनाद्यर्थं यमक-श्लेष-चित्रच्छन्दो-विशेषादि-नव-नवभङ्गी-सुभगाः सप्तशतमिताः स्तवा उपदीकृतारे निजनामाङ्कितास्तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विवियते ॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पञ्चमगणधराय नत्वा त्रिषु नतिक्रियाभिप्रेयत्वाच्चतुर्थी२ । श्रुतभक्तिप्रेरितोऽहं निरुद्धा=रुद्धा नाना=अविरतिकषायादिभिर्बहुविधानां वृजिनानां= पापानां आगमाः= प्रसरणानि३ यैस्तेषां जिनागमानां=श्रीवीरसिद्धान्तानां स्तवनं करोमि ॥१॥ [मू०] सामायिकादिक-षडध्ययनस्वरूप मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्ति-भाष्य-वर-चूर्णि-विचित्रवृत्तिस्पष्टीकृतार्थनिवहं हृदये वहामि ॥२॥ (वसन्ततिलका)
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy