________________
कषायाख्ये द्वितीयाधिकारे विंशात्त्रयोविंशावधि कीदृगाचरणेन जीवः कषायी भवतीत्येतद्दर्शितं दर्शनचतुरैः ।।२।।
रागाद्यभिधाने तृतीयाधिकारे चतुर्विंशात्त्रयस्त्रिंशत्तमश्लोकैः क्रोधादिकषायैरुत्पद्यमानाननर्थान् रागद्वेषयोः स्वरूपं च प्रतिपादितवन्त आचार्याः ॥३॥
कर्माख्ये तुर्याधिकारे चतुस्त्रिंशादष्टत्रिंशावधिके प्रकृतिस्थितिरसप्रदेशभेदैः कर्मबन्धस्य विचित्रता तत्कारणं च प्रदर्शितम् ॥४॥
एकोनचत्वारिंशादारभ्यैकोनाशीतश्लोकपर्यन्ते पञ्चमाधिकारे पञ्चेन्द्रियविषयनामके पञ्चेन्द्रियार्थपराधीनस्यात्मनो हानिः, तान्येव स्ववशीकर्तुश्च स्वाभाविकं सुखं व्यावर्णितम् ॥५॥
__ मदस्थानाख्ये षष्ठाधिकारे आशीतादेकोत्तरशततेमैर्मदस्याष्टौ भेदाः, ततश्चेहामुत्रानर्थसम्भवो जीवस्य दर्शितः ॥६॥
आचारनाम्नि सप्तमाधिकारे व्यधिकशततमादारभ्याष्टचत्वारिंशदधिकशततमपर्यन्ते इन्द्रियजन्यं विषयसुखं किम्पाकफलमिव दुरायति ज्ञात्वा तद्विरक्त्या पञ्चविधाचारसम्यगाराधनतत्परैर्भाव्यं सर्वैः, निर्ग्रन्थैस्तु विशेषत इत्युपदिश्य निर्ग्रन्था निर्ग्रन्थत्वसिद्धयेऽभ्यर्थिताः ॥७॥
भावनानामन्यष्टमाधिकारे एकोनपञ्चाशदधिकशततमात् षट्षष्ट्युत्तरशततमपर्यन्तेऽनित्याशरणादिद्वादशभेदभिन्नाया भावनायाः स्वरूपं सूक्ष्मदृष्ट्या प्रत्यक्षीकृत्य संयममार्गबाधकविषयकषायादिविकारान्निवारयितुं प्रार्थिता मुमुक्षवो मुमुक्षुसार्थवाहैः ॥८॥
____ धर्माधिकारे नवमे सप्तषष्ठ्युत्तरशततमादेकाशीत्यधिकशततमपर्यन्तेन श्लोकसन्दर्भेण क्षमामार्दवार्जवादिदशविधयतिधर्माराधनपूर्वकरागद्वेषमोहादिप्रबलदोषदूरीकरणेन सत्साधनयोगेन च वैराग्यवासनावृद्ध्यर्थं विशेषतो यतितव्यमिति साग्रहेण भणितं भणितिदक्षैः ॥९॥
धर्मकथाभिधाने दशमाधिकारे व्यशीत्युत्तरशततमादष्टाशीत्युत्तरशततमपर्यन्तश्लोकैराक्षेपण्यादिधर्मकथाकरणं, स्त्र्यादिकथात्यजनं, परगुणदोषकीर्तनाद्विशुद्धध्यानस्य श्रेष्ठता, शास्त्राध्ययनाध्यापनतत्त्वचिन्तनादिविधानं, शास्त्रशब्दव्युत्पत्तिश्च व्युत्पादिता व्युत्पन्नैः ॥१०॥ ___जीवादिनवतत्त्वाख्ये एकादशाधिकारे एकोननवत्युत्तरशततमात्रिनवत्युत्तरशततमश्लोकैर्जीवाजीवादिनवतत्त्वनिरूपणपूर्वकं जीवतत्त्वस्य विविधभेदा भेदिताः स्वपरसमयभेदज्ञैः ॥११॥
उपयोगनामनि द्वादशाधिकारे चतुर्नवत्युत्तरशततमपञ्चनवत्युत्तरशततमाभ्यामुपयोगस्य साकारानाकारभेदौ आद्यस्याष्टधात्वमपरस्य च चातुर्विध्यमावेदितं सुविदिततत्त्वैः ॥१२॥
भावाख्ये त्रयोदशाधिकारे षण्णवतिसप्तनवत्युत्तरशततमाभ्यां श्लोकाभ्यां जीवस्यौदयिकादिभावपञ्चकस्य षष्ठस्य सान्निपातिकस्य च भेदा विवृता विवरणनिरतैः ॥१३॥
षड्द्रव्यात्मके चतुर्दशाधिकारेऽष्टनवत्युत्तरशततमात्सप्तविंशत्युत्तरद्विशततमश्लोकसमूहेन जीवस्यौदयिकादिभावैः स्थानादिप्राप्तिः, तस्यैव द्रव्याद्यष्टधात्वं, द्रव्यात्मादीनां स्वरूपं, ऊर्ध्वलोकादिस्वरूपं, नवतत्त्वस्वरूपं, सम्यग्दर्शनसम्यग्ज्ञानयोश्च लक्षणं लक्षितं लक्षणज्ञधुर्यैः ॥१४॥