________________
चारित्राख्ये पञ्चदशाधिकारेऽष्टाविंशत्युत्तरशतद्वयाद् द्विचत्वारिंशदधिकशतद्वयावधि चारित्रभेदाः, तदाराधनेनात्मलाभसम्भवः, प्रशमगुणमाहात्म्यं, तद्योगेन चावर्ण्यसुखप्राप्तिश्चेत्येतत्सझेपेण कथितं कथकाग्रगण्यैः ।।१५।।
शीलाङ्गाख्ये षोडशाधिकारे त्रयश्चत्वारिंशदुत्तरशतद्वयात्पञ्चचत्वारिंशदुत्तरशतद्वयपर्यन्तश्लोकत्रितयेन शीलाङ्गस्याष्टादशसहस्रभेदभिन्नत्वं तत्प्राप्त्युपायश्चोपपादित उपपत्तिनिपुणैः ।।१६।।
ध्याननामके सप्तदशाधिकारे षट्चत्वारिंशदधिकशतद्वयादेकोनपञ्चाशदधिकशतद्वयावधि धर्मध्यानस्याज्ञाविचयादिभेदचतुष्कं, तल्लक्षणानि च लक्षितानि लाक्षणिकैः ॥१७॥ ।
क्षपक श्रेण्यभिधानेऽष्टादशाधिकारे पञ्चाशदधिकशतद्वयादेकसप्तत्यधिकशतद्वयावधिके धर्मध्यानेन मोहादिजयात क्षपक श्रेणिमारुह्य कर्मोन्मलनपर्वकं केवलज्ञानादिशाश्वतद्धि प्राप्य जीवोऽव्याबाधमोक्षसुखभाग्भवतीति भावितं भगवद्भिः ॥१८॥
समुद्घातात्मके एकोनविंशाधिकारे द्विसप्तत्यधिकशतद्वयात् षट्सप्तत्यधिकशतद्वयावधिके केवलिन आयुषोऽतिरिक्ततरं कर्मत्रयं समीकर्तुं समुद्घातकरणं तत्प्रकारश्च प्रकाशितः प्रकाशनकुशलैः ॥१९॥
योगनिरोधस्वरूपे विंशाधिकारे सप्तसप्तत्यधिकशतद्वयात् व्यशीत्यधिकशतद्वयावधिके समुद्घातान्निवृत्तस्य केवलिनः सम्पूर्णयोगनिरोधकरणक्रमो दर्शितो दर्शनज्ञवर्यैः ॥२०॥
शिवगमनविधानाभिधाने एकविंशाधिकारे त्र्यशीत्यधिकशतद्वयात्पञ्चनवत्यधिकशतद्वयावधिके योगनिरोधानन्तरं केवली भगवान् हस्वपञ्चाक्षरकालमानां शैलेशी प्रतिपद्य प्रतिसमयं सत्तागतावशिष्टाशेषप्रकृतिक्षपणपूर्वकं देहातीतो भूत्वा समयेनैकेन समश्रेण्या लोकाग्रं गत्वा समग्रजन्मजरामरणरहितः साद्यनन्तानुपमाव्याबाधसुखं प्राप्नोतीत्येतत् सिद्धान्तितं सिद्धमार्गज्ञैः ॥२१॥
अन्तफलाख्ये च द्वाविंशाधिकारे षण्णवत्यधिकशतद्वयान्नवोत्तरशतत्रयावधिके सम्पूर्णसामग्रीविकलोऽपि मुनिः प्रबलपुरुषार्थाभावेऽपि यथाशक्ति तपोजपसंयमप्रभावेण सद्गतिं प्राप्याचिरेण मोक्षसुखं प्राप्नोति । मुनिमार्गपालनासामर्थेऽपि जिनाज्ञापालनाभिरुचिः श्राद्धोऽणुव्रतादिकथितधर्मानुष्ठानेन सप्ताष्टभवमध्ये सिध्यतीत्यपि सङ्केपेणोदितं वदान्यवर्यैः ॥२२॥
ततश्चरमे श्लोकचतुष्टये जिनशासनार्णवाज्जरत्कपर्दिकातुल्येयं धर्मकथिका समुद्धृतेत्युक्त्या स्वलाघवं, दोषत्यागेन गुणग्रहणं, प्रशमसुखार्थं यतना, छन्दःप्रभृतिदूषणमर्षणं, श्रीमदर्हच्छासनजयश्चेत्येतत्कथितं ग्रन्थक; ग्रन्थोपसंहारं कुर्वता इति ।
उक्तेष्वेष्वधिकारेषु शुद्धवैराग्यगोचरः को विषयो न चर्चितः ? कोऽनुपयुक्तः ? कश्च न विदुषां चेतश्चमत्कारी ? किं बहुना ! श्रुतेन पठितेन चिन्तितेन चानेन प्रकरणेन मुमुक्षूणां जिज्ञासा सर्वतो विरम्यत इति स्पष्टतरमिदमेव प्रकरणं स्वाधिकारिणां प्रकटयतीत्यलं विस्तरेण ।
प्रसिद्धयित्री संवत् १९६६
श्री जैनधर्मप्रसारक सभा भाद्रपद शुदि १५
भावनगर