________________
२०४
प्रशमरतिप्रकरणम्
विधिना भैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाऽम्बरभाजनैषणाऽवग्रहाः शुद्धाः ॥११६॥ स्थाननिषद्याद्युत्सर्गशब्दरूपक्रियाः परान्योऽन्याः । पञ्चमहाव्रतदाढ्यं विमुक्तता सर्वसङ्गेभ्यः ॥११७॥ साध्वाचार: खल्वयमष्टादशपदसहस्रपरिपठितः । सम्यगनुपाल्यमानो रागादीन् मूलतो हन्ति ॥११८॥ आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदास्त कालविवरं यत्र क्वचनाभिभवनं स्यात् ॥११९॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः ॥१२०॥ क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥१२१॥ भोगसुखैः किमनित्यैर्भयबहुलैः काक्षितैः परायत्तैः ? । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥ यावत् स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत् तस्यैव जये वरतरमशठं कृतो यत्नः ॥१२३॥ यत् सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ॥१२४॥ इष्टवियोगप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यत्सरागो न संस्पृशति तद्विगतरागः ॥१२५॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ? ॥१२६॥ सम्यग्दृष्टिानी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥१२८॥ सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलोभरोषमदनः सुखमास्ते निर्ध्वरः साधुः ॥१२९॥ या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च । सद्धर्मचरणवार्तानिमित्तकं तवयमपीष्टम् ॥१३०॥ लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च सन्त्याज्यम् ॥१३१॥ देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः ॥१३२॥