________________
परिशिष्ट-१, प्रशमरतिः मूलम्
२०३
सर्वमदस्थानानां मूलोद्धातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः ॥१९॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१००॥ कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥१०१॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ? ॥१०२॥ अपरिगणितगुणदोषः स्वपरोभयबाधको भवति यस्मात् । पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः ॥१०३॥ तस्माद् रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥१०४॥ तत्कथमनिष्टविषयाभिकाक्षिणा भोगिना वियोगो वै । सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥१०५॥ आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः ।। निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥१०६॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥१०७॥ यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८॥ तद्वदुपचारसम्भृतरम्यकरागरससेविता विषयाः । भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥१०९॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत् ॥११०॥ विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः । द्विगुणोऽपि च नित्यमनुग्रहोऽनवद्यश्च सञ्चिन्त्यः ॥१११॥ इति गुणदोषविपर्यासदर्शनाद्विषयमूच्छितो ह्यात्मा । भवपरिवर्तनभीरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचार: समधिगम्यः ॥११३॥ षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम् ॥११४॥ संसारादुद्वेगः क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥११५॥
२०३