________________
11
२. शून्यतादृष्टितः क्लेशादिदोषदूषितचित्तसन्ततिविच्छेदो मुक्ति:-माध्यमिकाः । ३. भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसन्तानं मुक्तिः-योगाचाराः । ४. रागादिज्ञानसन्तानवासनोच्छेदो मुक्तिः-वैभाषिकाः । बौद्धमते मुक्तावात्मस्थितिनिर्वातप्रदीपसदृशी भवति । इतरेषां केषाञ्चिन्मतानिआनन्दमयपरमात्मनि जीवात्मलयो मोक्षः-त्रिदण्डिनः । आत्महानं मुक्तिः-चार्वाकाः । स्वातन्त्र्यं मुक्तिः केचित् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्ति:-तौतातिताः । अक्षयशरीरादिलाभो मुक्तिः-वैष्णवाः कापालिकाश्च ।
अथ जैनदर्शनसत्कमुक्तिस्वरूपं सप्रपञ्चं निरूप्यते ।
आवश्यकसूत्रेष्वन्यतमे पाक्षिकसूत्रे जैनधर्मस्य स्वरूपं परिचाययद्भिर्महर्षिभिः 'अहिंसैव जैनधर्मस्य प्राणभूते'ति सूचयितुं जैनधर्मस्य विशेषणत्वेन प्रथममेवोपन्यस्तं 'अहिंसालक्खणस्स' 'अहिंसालक्षणस्ये'ति । अनेन जैनशास्त्रोक्तसकलविधिनिषेधानां हार्द हिंसाविरतिरेवेति तु फलितं भवत्येव, परं लक्षणमतिव्याप्त्याऽपि रहितं भवतीतिकृत्वाऽन्यधर्मस्थोऽप्यहिंसापरिपूतो व्यवहारो जैनैरनुमोदित एवेत्यप्यनेन ध्वनितं भवति ।
यद्यपि लोकः परप्राणवियोग-परपीडनादित्यागमेवाऽहिंसां मन्यते, विचारकाः पुनः परानिष्टचिन्तननिवृत्तिमप्यत्र समावेशयन्ति, तथापि 'अहिंसा परमो धर्मः, अहिंसैव जिनाज्ञासार' इत्यादि ब्रुवतां जैनाचार्याणामभिमताऽहिंसा वस्तुतस्ततोऽतिसूक्ष्मा । तथाहिआत्मस्वरूपं सम्यग्ज्ञानदर्शनचरणमयम् । जीवानां या या अशुभा वृत्तिप्रवृत्तयस्ताः सर्वा अप्येतत्स्वरूपस्याऽऽच्छादिकास्तन्नाम घातिका भवन्ति । स्वरूपस्यैष घात एव हिंसा, यथा च स्वरूपमविकृतमेव तिष्ठेत्, तथाऽवस्थानमेवाऽहिंसा । यतः सर्वा अपि जिनाज्ञाः १. दीपो यथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ २. दृश्यतामेतदर्थावगमार्थं-तत्त्वार्थ० १.१, योगशतक ३। ३. आतमभावहिंसनथी हिंसा, सघलां ए पापस्थान ।।
तेह थकी विपरीत अहिंसा, तास विरहनुं ध्यान ॥ - ३५० गाथा- स्तवन–८.२४