SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् तए णं से विजए देवे अहुणोववन्नमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ। तं जहा - आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भासामणपज्जत्तीए । ( जीवाभिगम प्र.३, सू.१४१) चतुर्थप्रतिपत्तौ । अयं च पर्याप्तिविचारो विनेयानुग्रहाय गाथाभिरपि प्रदर्श्यते आहारसरीरिंदिय, ऊसासे वयमणे छ पज्जत्ती । चउ पंच पंच छप्पिय, इगविगलामणसमणतिरिए । । गब्भयमणुनिरएसुं, छप्पी पज्जती पंच देवेसु । जं तेसि वयमणाणं, दोण्ह वि पज्जत्ति समकालं।। उरलविउव्वाहारो, छण्हवि पज्जत्ति जुगवमारंभो । तीसु वि पढमिगसमए, बीया पुण अ (अं) त्तमोहत्ती।। पिह पिह असंखसमइ य, अंतमुहत्ता उरालि चउरो वि । पिह पिह समया चउरवि, हुंती वेउव्विआहारे।। छण्ह वि सममारंभो, पढमासमए वि यंतमोहत्ती । तितुरियसमए समए, सुरेसु पण छट्ठ इग समए।। (विचारपञ्चाशिका-३३-३७, विचारसप्ततिका-४३-४६) इह षण्णामपि पर्याप्तीनां त्रिष्वपि स्पर्द्धकेषु युगपदेव प्रारम्भः, समाप्तिस्तु क्रमेण । तथाहि - त्रिष्वपि स्पर्द्धकेषु यथास्वं प्रथमसमय एव आहारपर्याप्तिः समाप्यते । ततोऽनन्तरं पुनरन्तर्मुहूर्ते गते त्रिष्वपि स्पर्द्धकेषु शरीरपर्याप्तिः। ततोऽनन्तरमौदारिकस्पर्द्धके पुनरन्तर्मुहूर्ते गते इन्द्रियपर्याप्तिः । ततोऽप्यनन्तरं पुनरन्तर्मुहूर्ते गते आनप्राणपर्याप्तिः। ततोऽप्यनन्तरं पुनरन्तर्मुहूर्ते गते भाषापर्याप्तिः । ततोऽप्यनन्तरं पुनरन्तर्मुहूर्ते गते मनःपर्याप्तिः समाप्यत इति । वैक्रियाहारकस्पर्द्धकयोस्तु तनुपर्याप्तेरनन्तरं पुनः समये गते इन्द्रियपर्याप्तिः समाप्यते । ततोऽप्यनन्तरं पुनः समये गते आनप्राणपर्याप्तिः । ततोऽप्यनन्तरं पुनः समये गते भाषापर्याप्तिः । ततोऽप्यनन्तरं पुनः समये ग मनः पर्याप्तिः समाप्यत इति । देवस्पर्द्धके तु तनुपर्याप्तेरनन्तरं समये गते इन्द्रियपर्याप्तिः समाप्यते । ततोऽप्यनन्तरं पुनः समये गते आनप्राणपर्याप्तिः। ततोऽप्यनन्तरं पुनः समये गते भाषा मनः पर्याप्ती द्वे अपि युगपदेव समाप्येते इति । इह च पर्याप्तिविचारे अन्तर्मुहूर्तं सर्वत्र असङ्ख्यातसामयिकमेव ग्राह्यम्, न पुनरष्टसमयादि यावत्सङ्ख्यातसमयान्तम्। यन्त्रकस्थापना चेयम् (१) औदारिकशरीरिणां सर्वतिरश्चां मनुष्याणां च । १ समय आहारः ३३ अन्तर्मुहूर्त १ समय शरीरम् अन्तर्मुहूर्त अन्तर्मुहूर्त १ समय इन्द्रियम् अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त १ समय आनप्राणः अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त अन्तर्मुहूर्त १ समय १ समय भाषा मनः
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy