________________
मन:स्थिरीकरणप्रकरणम्
[मूल] मणकविचवलो विसएसु धावए तस्स नियमणं परमं ।
मणथिरकरणं एयं, तो पढ गुण चिंत सयकालं ।।१७०।। व्याख्या] यथा कपिः प्रकृत्यैव सततमपि चञ्चलस्वभावो भवति। एवं मनःकपिरपि दिवा वा, रात्रौ वा, एकाकी वा, बहुजनपरिवृतो वा, अरण्ये वा, ग्रामादौ वा, रोगे वा, विप्रयोगे वा, हर्षे वा, शोके वा, जाग्रद्वा, निद्रागतो वा, च्छातो वा, ध्रातो वा, प्रायेण सततमपि विषयानुव्रजनशीलो भवति। ततस्तस्य विषयवनं प्रति प्रधावमानस्य सम्यगेतत्प्रकरणमपि युज्यमानं नियमनमिव स्वेच्छाप्रचारनिवर्तकशृङ्खलादामेव। तस्मादायुष्मन् ! त्वमेतत् प्रकरणं पठ = सततमुद्घोषणेन स्वायत्तं विधेहि, गुण = स्वनामेव परिचितं कुरु, चिन्तय = निरन्तरमेतदर्थानां ध्यानमाचर, उपलक्षणत्वाद् व्याख्यानय = अन्यानपि पठनादिषु प्रवर्तय, परम् अयोग्यपरिहारेण योग्यानेव। उक्तं च
कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथप्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च। दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्दीति धैरुति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया।।
(सङ्घपट्टकः-२) इति मनःस्थिरीकरणस्य कतिपयानां विषमविषमतरगाथानां भावार्थमात्रप्रदर्शकं सङ्क्षिप्ततरं विवरणमपि तैरेव श्रीमहेन्द्रसिंहसूरिभिर्विहितमिति।।
।। मङ्गलमस्तु एतदध्येतृ-अध्यापय(यि)तृ-श्रोतृ-व्याख्यातृभ्यः।।
। विजयतां चतुर्विधोऽपि श्रीसङ्घभट्टारक इति।। यावन्नन्दति सङ्घो यावच्च वर्द्धमानजिनतीर्थम्। तावत्प्रकरणमिदमपि, बुधजनमनसि स्थिरं भवतु।।
ग्रं२३००।। इति मनःस्थिरीकरणविवरणं समाप्तम्।।
।। मङ्गलं महाश्रीः।।
।। शुभं भवतु चतुर्विधसङ्घस्य।।