________________
मन:स्थिरीकरणप्रकरणम्
तह सो ज्झाइ समत्था, जीवंबरलोहमेइणिगयाणं। झाणजलानलसूरा, कम्ममलकलंकपंकाणं।। तावो सोसो भेओ, जोगाणं झाणओ जहा निययं। तह तावसोसभेया, कम्मस्स वि ज्झाइणो नियमा।। जह रोगासयसमणं, विसोसण-विरो(र)यणोसह-विहीहिं। तह कम्मामयसमणं, झाणाणसणाइजोएहिं।। जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं डहइ। तह कम्मिंधणममियं, खणेण झाणानलो डहइ।। जह वा घणसंघाया, खणेण पवणाहया विलिजंति। झाणपवणावधूया, तह कम्मघणा विलिजंति।। न कसायसमुत्थेहिं य, बाहिज्जइ माणसेहिं दुक्खेहि। ईसाविसायसोगाईएहिं झाणोवगयचित्तो।। सीयायवाईएहिं य, सारीरेहिं य सुबहुप्पगारेहि। झाणसुनिच्चलचित्तो, न व(बा)हिज्जइ निज्जरापेही।। इय सव्वगुणाहाणं, दिट्ठादिट्ठसुहसाहणं झाणं। सुपसत्तं सद्धेयं, नेयं झेयं च निच्चं पि।।
(ध्यानशतकम्- ९६-१०४) इह च संवरेत्यादि गाथाः सप्तापि सूत्रादौ द्वितीयगाथाव्याख्यानोक्ता अपि विस्मरणशीलशिष्याणामनुग्रहाय, पटुतरमतीनान्त(नां तु) ध्यानमाहात्म्यप्रकर्षप्रकाशनेन ध्यानाचलचूलिकाशिखराधिरोहे पुनः पुनः प्रवृत्त्यर्थं च पुनरपि लिखिताः। न चैवं पौनरुक्त्यम्, यतोऽभाणि
अनुवादादरवीप्साभृशार्थविनियोगहेत्वस्तई (त्वसूयासु)यासु। ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्।। इति ।। १६८।। अथ यदुपदेशाद्यैर्यस्मिन् संवत्सरे मनःस्थिरीकरणप्रकरणमिदं सङ्कलितं तदेतदाह
मूल] सिरिधम्मसूरिसुगुरूवएसओ सिरिमहिंदसूरिहिं ।
मणथिरकरणपगरणं, संकलियं बारचुलसीए ।। १६९।। व्याख्या] इह हि जगतितलेयः स्फूर्जत्कलिकालतामसभरच्छन्नां चरित्रक्रियाम्, सिद्धान्तद्युतिभिर्विकाशमनयत्तिग्मांशुतुल्याकृतिः। सोऽयं तीव्रतपःप्रतापवसतिनिःसीममेधागृहम्, गोत्रालङ्कृतिरार्यरक्षितगुरुः पूर्वं बभूव क्षितौ।।१।। यो विंशतिप्रमितवर्यपदप्रतिष्ठाम्, निर्माय निर्ममपतिः प्रतिपक्षजेता। पीयूषरोचिरिव वारिनिधिं ततान, गच्छं ततः स समभूजयसिंहसूरिः।।२।।
तेषां च सद्विनेयाः विद्याचतुष्टयनिष्णातमतयः, सहभाविसूरि सिद्धान्तग्रन्थार्थव्याख्यातृत्वे सम्प्राप्ताप्रतिमख्यातयः, नानादेशेषु विहाराः, सर्वत्र च स्वपरवादिभिरप्रतिहतसूक्ष्मसूक्ष्मतरविचाराचारप्रचाराः, प्रभूताद्भुतगणिगुणगणमणिभूरयः श्रीमद्धर्मघोषसूरयः समभूवन्। तेषां च श्रुतान्तेवासिभिरपि तत्पट्टप्रतिष्ठितैः श्रीमहेन्द्रसिंहसूरिभिः तेषामेव सद्गुरूणां पादान्ते शास्त्रोपदेशरहस्यमभिगम्य विक्रमनृपाजलधिवसुसूर्यसंवत्सरे (१२८४) पूर्वपूर्वतरश्रुतधर विरचितग्रन्थेभ्यः स्थूलस्थूलतरानव्युत्पन्नमतीनामपि सुखप्रतिपाद्यान् कतिपयविचारलवानभिगृह्येदं प्रकरणं सङ्कलितम्। न पुनरत्र किमपि स्वमनीषिकाविजृम्भितमस्ति। तद्यद्येवमपि किमपि वितथमजनि तद्विबुधैः सम्यक् परिज्ञाय शोधनीयमिति।।१६९।।
अथैतत्प्रकरणकरणकारणाविःकरणपूर्वकमेतदध्ययनादिषु शिष्यान् प्रवर्तयन्नाह