________________
मन:स्थिरीकरणप्रकरणम्
८१
नामकर्म यद्यपि द्विचत्वारिंशदादिभेदाद् अनेकधा तथापि शुभाशुभविवक्षया द्विविधमेवेति द्विविधस्यापि बन्धहेतूनाह
मण - वयण- कायवंको, माइल्लो गारवेहिं पडिबद्धो । असुहं बंधइ नामं, तप्पडिवक्खेहिं सुहनामं ।। (बन्धशतकम् - २४)
मनोवाक्कायवक्रः कषायचतुष्टयावेशपूर्वकचिन्तनभाषणचेष्टाप्रवृत्तिरित्यर्थः । तत्रापि मायाकषायस्याधिक्यप्रदर्शनार्थमाह- माइल्लो त्ति । सर्वत्र मायाप्रधानसमाचार इत्यर्थः । गौरवेषु = ऋद्धिरससातलक्षणेषु प्रतिबद्धोऽशुभं नरकगत्ययशःकीर्त्येकेन्द्रियजात्यादिरूपं नामकर्म बध्नाति । उक्तदोषप्रतिपक्षैस्तु प्राञ्जलमनोव्यापारादिभिर्देवगत्यादिकं शुभनाम बध्नाति । एतदुक्तं भवति - क्रोधाद्युत्कटतया प्राणिगणाङ्गोपाङ्गादिकर्तनया, परवैरूप्यापादनेन, परनिरीक्षितभाषितगत्यादिचेष्टोपहासेन, विशिष्टद्रव्यान्तर्गतकुद्रव्यविक्रयेण, स्वभावतो वर्णगन्धादिरहितद्रव्याणां कृत्रिमतदुत्पादनेन, कृत्रिमहेमरत्नघुसृणघनसारादिनिर्वर्तनेन, सर्वत्र विसंवादिव्यवहारतया, प्राणिवधादिभिश्चाशुभं नाम निर्वर्तयति। विपर्यये तु विपर्यय इति गाथार्थः । गोत्रस्य द्विविधस्यापि बन्धहेतूनाह
अरहत्ताइसु भत्तो, सुत्तरुड़ पयणुमाण गुणपेही । बंधड़ उच्चागोयं, विवरीए बंधए नीयं । ।
(बन्धशतकम् - २५)
= बहुमानपरस्तथा
अर्हतामादिशब्दात्सिद्धाचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तो सूत्ररुचिः, किमुक्तं भवति- जिनवचनमनवरतं स्वयं पठति, परांश्च पाठयत्यर्थतश्च स्वयमभीक्ष्णं विमृशति, परेषां च व्याख्यानयति। असत्यां वा तत्पठनादिशक्तौ तीव्रबहुमानतस्तदुक्तमर्थं श्रद्दधानोऽपि सूत्ररूचिरित्युच्यते। तथा प्रतनुमानो = विशिष्टजातिकुलरूपैश्वर्यादिसम्पन्नोऽपि निरहङ्कारः, पराऽपरिभवनशीलः। तथा गुणप्रेक्षी = यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते = पुरस्करोति, दोषेषु सत्स्वपि उदास्ते इत्यर्थः। गुणाधिकेषु च नीचैर्वृत्त्या वर्तमानः, परपरिवादादिदोषरहितश्च उच्चैर्गोत्रं बध्नाति । भणितगुणविपर्यये तु नीचैर्गोत्रं बध्नातीति गाथार्थः। साम्प्रतमन्तरायस्य बन्धहेतूनाह
पाणिवहाईसु रओ, जिणपूयामोक्खमग्गविग्घकरो। अज्जेइ अंतरायं, न लहइ जेणच्छियं लाभं । । (बन्धशतकम् - २६)
प्राणातिपातानृतभाषणादिरतो, जिनपूजाविघ्नकरः = 'सावद्यादिदोषोपेतत्वाद्गृहिणामप्येषा अविधेया' इत्यादि कुदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः । तथा - मोक्षमार्गस्य ज्ञानादेर्विघ्नकरस्तद्दोषग्रहणादिना केनचित्प्रकारेण तस्य विघ्नं करोति । साधुभ्यो वा भक्तपानोपाश्रयोपकरणभैषजादिकं दीयमानं निवारयति। तेन चैतत्कुर्वता मोक्षमार्गः सर्वोऽपि विघ्नितो भवति । तथा - अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविघ्नं करोति, मन्त्रादिप्रयोगेण परस्य वीर्यमपहरति, हठाच्च वधबन्धादिभिः परं निश्चेष्टं करोति, छेदनभेदनादिभिश्च परस्येन्द्रियशक्तिमुपहन्ति । स किमित्याह- अर्जयति = निर्वर्तयति पञ्चप्रकारमप्यन्तरायिकं कर्म, येनार्जितेन सता दानभोगादिलाभभिमीप्सितं किञ्चिन्न लभते इति गाथार्थः ।।१४५।।१४६।।१४७।।१४८।।१४९।। १५० ।। १५१ ।। १५२ ॥
गतं प्रसङ्गागतम्। अथ प्रस्तुतं कषायद्वारम् । ते च कषायाः क्रोधमानमायालोभाश्चत्वारः, पुनस्त एव प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्व (व) लनभेदाच्चतुर्द्धति षोडश । उक्तं च
कोहो माण माया, लोभो चउरो य हुंति चउभेया । अण अप्पच्चक्खाणा, पच्चक्खाणा य संजलणा ।। जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणसलयाकट्ठट्ठिय, सेलत्थंभोवमो माणो ।।