________________
८०
मनःस्थिरीकरणप्रकरणम्
नायुश्चतुर्द्धा । तत्र नारकायुषो हेतू नाह
मिच्छादिट्ठि महारंभपरिग्गहो तिव्वलोह निस्सीलो । निरयाउयं निबंधड़, पावमई रुद्दपरिणामो ।
(बन्धशतकम् - २०)
=
मिथ्यादृष्टिः सद्धर्मदूरीकृतस्तथा महान्तौ बहुजीवविघातकत्वेनारम्भपरिग्रहौ यस्य स तथा। तीव्रा (व्रोऽनन्तानुबन्धि लोभो, निःशीलो = निर्मर्यादो व्रतनियममार्गदूरीभूतश्चाग्निरिव सर्वभक्षीत्यर्थः । सदैव पापेऽगम्यगमनापेयपानाभक्ष्यभक्षणहिंसादिलक्षणे मतिर्यस्य स तथा । रौद्रपरिणामो गिरिभेदसमकषायै रौद्रध्यानरुषितचेतोवृत्तिरित्यर्थः। स किमित्याह - नारकायुर्नितरां बध्नातीति गाथार्थः । तिर्यगायुषः प्राह
उम्मग्गदेसओ मग्गनासओ गूढहियय माइल्लो । सढसीलो य ससल्लो, तिरियाउं बंधई जीवो।। (बन्धशतकम् - २१)
उन्मार्गं भवहेतुं मोक्षहेतुत्वेन दिशति, मार्गं च ज्ञानादिकं नाशयि = अपलपति। गूढहृदयो नाम उदायिनृपमारकादिवत्, तथात्माभिप्रायं सर्वथैव निगूहति यथा नापरः कश्चिद्वेत्ति । माइल्ल शब्देन तु वक्रबहिश्चेष्टो गृह्यते। शठशीलो नाम वचसा मधुरः परिणामेऽतिदारुणः । ससल्लो त्ति । रागादिवशाचीर्णानेकव्रतनियमातिचारः स्खलद्दन्तःशल्योऽनालोचिताप्रतिक्रान्तो जीवः क्षितिभेदसमकषायोऽल्पारम्भोऽपि तिर्यगायुर्बध्नातीति गाथार्थः । मनुष्यायुषः प्राह
पयइई तणुकसाओ, दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो, मणुयाऊ बंधई जीवो || बन्धशतकम् - -२२)
प्रकृत्या = स्वभावेनैव तनुकषायो रेणुराजिसमानकषाय इत्यर्थः । उपलक्षणं चैतत्ततश्च प्रकृत्या भद्रको विनीतः सदयोऽमत्सर इत्यपि द्रष्टव्यम् । यत्र तत्र वा दानरतः शीलसंयमवियुक्तः, तद्युक्तो हि बन्धसम्भवे देवायुरेव बध्नीयादिति भावः। किं बहुना ? क्षान्तिविनयादिभिर्मध्यमैस्तदुचितैः कैश्चिद् गुणैर्युक्तो जीवो मनुष्यायुर्बध्नाति । ततोऽधमगुणस्य नरकतिर्यगायुः सम्भवाद्, उत्तमगुणस्य सिद्धेः सुरलोकायुषो वा सम्भवादिति भाव इति गाथार्थः। इदानीं देवायुषः प्राह
अणुव्वयमहव्वएहि य, बालतवाकामनिज्जराए य। देवाउयं निबंधइ, सम्मद्दिट्ठी य जो जीवो।। (बन्धशतकम् - २३)
अणुव्रतग्रहणेन देशविरतः श्रावकः सूचितः । स चाविराधितविरतिगुणो देवायुर्नितरां बध्नातीति योगः । महाव्रतग्रहणेन तु सरागसंयतो गृहीतः । सोऽपि देवायुर्बध्नातीति । वीतरागस्त्वतिविशुद्धत्वादायुर्न बध्नात्येव । घोलनापरिणाम एव तस्य बध्यमानत्वादिति । बालतपोग्रहणेन त्वनधिगतपरमार्थस्वभावा अज्ञानपूर्वकनिवर्तिततपःप्रभृतिकष्टविशेषा मिथ्यादृष्टयो गृह्यन्ते । एतेऽप्यात्मगुणानुरूपं किञ्चिद् देवायुर्बध्नन्ति, न तु सम्यग्दृष्टिवद्विशिष्टमिति। तथा अकामस्यानिच्छतो निर्जरा = कर्मविचटनम् अकामनिर्जरा तया च। एतदुक्तं भवति
अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं
अकामसीयायवदंसमसग अण्हाणसेयजल्लमलपंकपरिग्गहेणं दीहरोगचारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसणअणसणाईहिं य । ()
उदकराजिसमानकषायत्वेन तदुचितशुभपरिणामे सति व्यन्तरादिप्रायोग्यं किञ्चिद्देवायुर्बध्यते। सम्यग्दृष्टिग्रहणेन त्वविरतसम्यग्दृष्टिर्गृह्यते। सोऽप्यविराधितसम्यक्त्वगुणो देवायुर्बध्नातीति गाथार्थः ।