________________
मन:स्थिरीकरणप्रकरणम्
मूल] सच्चं एसिं उदओ, भणिओ जियठाणमोहसंवेहे ।
__सयरीगंथे अट्ठसु, पंचसु एगि त्ति गाहाए ।।१३५।। व्याख्या] सत्यम्, एकेन्द्रियविकलामनसः समाश्रित्य एतेषां हास्यादीनामुदयः सत्तरीग्रन्थे जीवस्थानेषु मोहनीयकर्मसम्वेधे विचार्यमाणे। अट्ठसु पंचसु एगे इत्यादिगाथायां भणित एवास्ते। तथाहिअट्ठसु पंचसु एगे, एगदुगं दस य मोहबंधगए। तिगचउनवउदयगए, तिग तिग पन्नरस संतम्मि।।
(सप्ततिकाभिधः षष्ठः कर्मग्रन्थः-४०) अस्याश्च गाथाया वृत्तिविस्तरमुपजीव्य कतिचित्पदानामेव प्रस्तुतोपयोगिनां गमनिकामानं प्रदर्श्यते। अट्ठसु त्ति। अपर्याप्तपर्याप्तसूक्ष्मापर्याप्तबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियासज्ञिरूपेषु अष्टसु जीवस्थानेषु। तथा- पंचसु त्ति। पर्याप्तबादर-एकेन्द्रियद्वित्रिचतुरिन्द्रियासञिरूपेषु पञ्चसु जीवस्थानेषु।
तिगचउनवउदयगए। अत्रैवं सम्बन्धः- अष्टसु जीवस्थानेषु प्रत्येकं मोहस्य अष्टनवदशरूपाणि तिग त्ति। त्रीणि उदयस्थानानि भवन्ति। तद्यथा- मिथ्यात्वं कषायचतुष्टयं नपुंसकवेदो हास्यरतिरूपम्, शोकारतिरूपं वा अन्यतरद्युगलं चेति अष्टोदयः, पुनरत्रैव भयजुगुप्सयोरन्यतरप्रक्षेपे नवोदयः। युगपदेतदुभयप्रक्षेपे दशोदय इति।।
तथा पञ्चस पर्याप्तबादरैकेन्द्रियादिषु जीवस्थानेषु प्रत्येकं मोहस्य सप्ताष्टनवदशरूपाणि चउ त्ति। चत्वार्युदयस्थानानि भवन्ति। तद्यथा- एषां पञ्चानामपि सासादनभावकाले कषायचतुष्टयं नपुंसकवेदोऽन्यतरद्युगलं चेति सप्तोदयः, पुनरत्रैव भयजुगुप्सयोरन्यतरप्रक्षेपे अष्टोदयः। युगपदेतदुभयप्रक्षेपे नवोदयः।
सासादनाभावेऽपि एतेषां पञ्चानामपि अष्टनवदशरूपास्त्रयो विकल्पास्तव(तद्यथा)- मिथ्यात्वं कषायचतुष्टयं नपुंसकवेदोऽन्यतरद्युगलं चेत्यष्टोदयः। अत्रैव भयजुगुप्सयोरन्यतरप्रक्षेपे नवोदयः। युगपदुभयप्रक्षेपे दशोदय इति।
इत्येवं सास्वादनभावाभावभाव्युदयस्थानसङ्ग्रहेण सप्ताष्टनवदशरूपाणि चत्वारि उदयस्थानानि पञ्चसु जीवस्थानेषु भवन्तीति। नवरं अष्टनवरूपे(ण) द्विधा। सप्तदशरूपे एकधेति। एतेन प्रस्तुतम् एकेन्द्रियविकलामनसां हास्यादीनामुदयोऽस्तीति साधितम्। अपरं चास्या गाथायाः अट्ठसु पंचसु त्ति। तिग चउ त्ति। एतावदेव प्रस्तुतोपयोगित्वाद् व्याख्यातम्, शेषपदानि बहुव्याख्येयत्वात् प्रस्तुतानुपयोगित्वाच्च मुक्तानि, तदर्थिना तु सप्ततिकावृत्तिरवलोकनीयेति।।१३५।।
तथा
[मूल] पुव्वुत्ता चउतीसा, सतुरियवयरसण पुण वि छत्तीसा ।
घाणेण चक्खुसुइणा, सगतीसडतीस गुणचत्ता ।।१३६।। बितिचउरमणाणं, मिच्छे साणे उ चउहि वि उरलं । मिच्छत्ततुरियवयणं, हिच्चा नहइंदियाई कमा ।।१३७।।
दुगतिगचउपण मुत्तुं, तो सव्वहि होइ हेउइगतीसं । व्याख्या] पुव्वत्त त्ति। या एकेन्द्रियेषु पूर्वमुक्ता चतुस्त्रिंशत् सा तुर्यभाषारसनेन्द्रियाभ्यां सहिता षट्त्रिंशदजनि। ततस्तस्यामेव घ्राणेन, घ्राणोपरि चक्षुषा, तदपर्यपि श्रवणेन क्षिप्तेन क्रमेण सप्तत्रिंशत, अष्टत्रिंशत, एकोनचत्वारिंशद् भवन्तीति। ताश्च चतस्रोऽपि सङ्ख्या द्वित्रिचतुरिन्द्रिय(या)मनसां मिथ्यात्वगुणस्थाने क्रमेण भवन्तीति। तथा- साणे उ ति। सासादने पुनः चउहि वि त्ति। चतसभ्योऽपि सङ्ख्याभ्य
औदारिकयोगमिथ्यात्वतुर्यभाषारूपं हेतुत्रयं युगपत्त्यक्त्वा। तथा इन्द्रियाण्यपि पर क्रमेण द्वे त्रीणि चत्वारि पञ्च मुक्त्वा ततः पश्चाच्चिन्त्यमाना सव्वहिं ति। चतुर्ध्वपि सङ्ख्यास्थानेषु हेतूनामेकत्रिंशद्भवतीति।।१३५।। १३६।।