________________
मन:स्थिरीकरणप्रकरणम्
५३
नग्गोहरिसहनारा, हालिद्दं विलय अद्ध तेराओ । नाराय सादि चउदस अरुणित्थिकसायमणुयदुगं ।।९।। सायं छप्पन्नारा, सोलसिगं कुज्जमद्धनारायं। नीलकडुयद्धठारा, कीलियवामणयसुहुमतिगं।।१०।। विगलतिगं अट्ठारा, तसचउ तिरिजुयल निरयजुयलं च। तेयविउव्विय उरलाण सत्तगा हुंडसंठाणं।।११।। पढमंतजाइ कुखगइ, कुवन्ननवगं च नीलकडुवज्जं । पत्तेया य अतित्था, थावर अथिराइछक्कं च । । १२ ।। छेवट्टं सोगारइ, भयकुच्छनपुंसनीयगोयं च । इगसट्ठी वीसेक्का, विग्घावरणाइं अस्सायं ।। १३ ।। वीसंतिसेक्काओ, सोलकसायाउ हुंति चालीसा । मिच्छेगसत्तरिक्का, पयडिविभागे स बारसहा ।।१४।।
अथैतदेव विवरणगाथासप्तकं गाथाद्वयसत्कद्वारोच्चारपूर्वकं क्वापि समग्रां विवरणगाथां क्वापि क्वापि विवरणगाथानां एकैकान् अवयवान् क्वापि च तासामेव बहून् पादान् अभिगृह्य विव्रियते। तद्यथा
बावीसं दसिगाउ त्ति । आइम गाहा । आदिमं संहननं वज्रर्षभनाराचम्। आदिमा आकृतिः समचतुरस्रसंस्थानम्। स्थिरषट्कमिदं - स्थिरं सुभगं सुस्वरम् आदेयं यशः कीर्तिश्चेति । तथा सुरद्विकं देवगतिः देवानुपूर्वी चेति। एवमेता द्वाविंशतिप्रकृतयो दशसागरकोटीकोटीस्थितिका।
दु बार त्ति। नग्गोहरिसह बार त्ति । न्यग्रोधमण्डल - ऋषभनाराचरूपे द्वे प्रकृती द्वादशातरकोटीकोटी
स्थितिके।
दुधतेर त्ति। हालिद्देत्यादि । हारिद्रवर्ण-आचाम्लरसरूपे द्वे प्रकृती अर्द्धत्रयोदशातरकोटीकोटीस्थितिके। दुन्नि चउदसिंग त्ति। नारायेत्यादि । नाराचसंहनन - सादिसंस्थानरूपे द्वे प्रकृती चतुर्दशातरकोटीकोटीस्थितिके।
छ पन्नार त्ति। अरुणेत्यादि । अरुणवर्ण-स्त्रीवेद - कषायरस - मनुष्यगति-मनुष्यानुपूर्वी-सातवेदनीयरूपाः षट् प्रकृतयोऽतरपञ्चदशककोटीकोटीस्थितिकाः।
दु सोलति । सोलसिगेत्यादि । अर्द्धनाराचसंहनन - कुब्जसंस्थानरूपे द्वे प्रकृती षोडशातरकोटीकोटी
स्थितिके।
दु द्धठार त्ति। नीलेत्यादि। नीलवर्ण कटुकरसरूपे द्वे प्रकृती सार्द्धसप्तदशातरकोटीकोटीस्थितिके।
अट्ठ अट्ठार त्ति । कीलियवामणयेत्यादि । कीलिकासंहनन - वामनसंस्थान - सूक्ष्म-अपर्याप्त-साधारणविकलत्रिकरूपा अष्टौ प्रकृतयोऽष्टादशातरकोटीकोटीस्थितिकाः ।
इगसट्ठी वीसिक्क त्ति। तसचउतिरिजुयल इत्यादि गाथापाददशकम् । त्रसं बादरं पर्याप्तं प्रत्येकं चेति त्रसचतुष्कम्। तथा तिर्यग्गतिः, तिर्यगानुपूर्वी, नरकगतिः, नरकानुपूर्वी चेति चतस्रः। तथा तैजससप्तकमिदं - तैजसशरीरम्, कार्मणशरीरम्, तैजसः सङ्घातः, कार्मणः सङ्घातः, तैजसतैजसबन्धनम्, कार्मणकार्मणबन्धनम्, तैजसकार्मणबन्धनं चेति । वैक्रियसप्तकं तु- वैक्रियं शरीरम्, वैक्रियाङ्गोपाङ्गम्, वैक्रियः सङ्घातः, वैक्रियवैक्रियबन्धनम्, वैक्रियतैजसबन्धनम्, वैक्रियकार्मणबन्धनम्, वैक्रियतैजसकार्मणबन्धनं चेति । औदारिक सप्तकमिदम् - औदारिकं शरीरम्, औदारिकाङ्गोपाङ्गम्, औदारिकसङ्घातः, औदारिकऔदारिकबन्धनम्, औदारिकतैजसबन्धनम्, औदारिककार्मणबन्धनम्, औदारिकतैजसकार्मणबन्धनं चेति। तथा कुवर्णनवकमिदम्- नीलम्, कृष्णम्, दुर्गन्धं (न्धः), त्य(ति) क्तम्, कटुकम्, गुरु, खरम्, रूक्ष्यं(क्षम्), शीतं चेति। अशुभनवकमपीदमुच्यते - एतन्मध्यान्नीलं कटुकं च वर्जयित्वा शेषं प्रकृतिसप्तकं गृह्यते। तथा प्रत्येकप्रकृतयोऽष्टाविमाः- पराघातम्, उद्योतम्, आतपम्, उच्छ्वासम्, अगुरुलघु, तीर्थकरम्, निर्माणम्, उपघातं चेति ।