________________
५२
मन:स्थिरीकरणप्रकरणम्
सत्यम्, इहैकेन्द्रियबन्धोऽष्टधा समस्ति, ततश्च यथोक्तौ बन्धौ यथोक्तविशेषणेष्वेवैकेन्द्रियेषु लभ्येते, न पुनः शेषेष्वपीति ज्ञापनार्थम। अयं चार्थ:
अमणुक्कोसा य विरय उक्कोसो। (सूक्ष्मार्थविचारसारोद्धार-८२)
इति गाथाव्याख्याने सार्द्धशतकवृत्तावुक्तः। तथाहि- बादरपर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धः स्तोकः, ततो बादरापर्याप्तैकेन्द्रियस्य जघन्यबन्धो विशेषाधिकः, ततः सूक्ष्मपर्याप्तैकेन्द्रियस्य जघन्यबन्धो विशेषाधिकः, ततः सूक्ष्मपर्याप्तैकेन्द्रियस्य उत्कृष्टस्थितिबन्धोऽपि विशेषाधिकः, ततो बादरापर्याप्तैकेन्द्रियस्योत्कृष्टस्थितिबन्धो विशेषाधिकः, ततः सूक्ष्मपर्याप्तैकेन्द्रियस्योत्कृष्टस्थितिबन्धो विशेषाधिकः, ततो बादरपर्याप्तैकेन्द्रियस्योत्कृष्ट-स्थितिबन्धो विशेषाधिकः इति। ततोऽत्र प्रथमाऽष्टमबन्धभेदसङ्ग्रहार्थमेकेन्द्रियाणां बादरः पर्याप्तश्चेति विशेषणद्वयमुक्तम्।
अथ 'एयं चिय' इत्यादिका द्वितीया करणगाथा व्याख्यायते। एतदेवैकेन्द्रियलब्धसागरभागत्रयं पञ्चविंशतिगुणम्, द्वीन्द्रियाणां पञ्चाशद्गुणम्, त्रीन्द्रियाणां शतगुणम्, चतुरिन्द्रियाणां सहस्रगुणम्, सञिपञ्चेन्द्रियाणां बन्धस्थितौ जानीहीति सम्बन्धः। एतेषां च त्रयाणां पञ्चविंशत्यादिगुणितागतभागानां सप्तभिर्भागे हृते जातमिदमसागराणि दश, एकविंशतिः, द्विचत्वारिंशत्, चत्वारिशतान्यष्टाविंशत्यधिकानि, एतदुपरि सागरसप्तभागाः पञ्च त्रयः षट् चत्वारश्च इति। एतदपि यथावस्थितं गुरुस्थितित्वेन, पल्यासङ्ख्येयभागेन हीनं तु जघन्यस्थितित्वेनेति।
तदेवं मूलप्रकृतित्रये करणं भावितम्, शेषं मूलप्रकृतिषूत्तरप्रकृतिष्वप्येवमेव भावयितव्यम्। ननु जघन्या स्थितिर्मूलप्रकृतीनांमुत्तुमकसाय हुस्सा, ठिइ वेयणीयस्स बारसमुहुत्ता। अट्ठट्ठ नामगोयाण सेसयाणं मुहत्तंतो।।
(सूक्ष्मार्थविचारसारोद्धार-६५) इत्येवंरूपा अन्यत्रोच्यते तत्कथमत्र किञ्चिदूनसागरभागत्रयादिकेति ?, सत्यम्, सा जघन्या स्थितिः क्षपकमनुष्याश्रिता, इयं त्वेकेन्द्रियाद्याश्रितेति विशेषः।
अथात्रायमेवानन्तरोक्तकरणप्रतिपादितोऽर्थो मूलोत्तरप्रकृतिसमुदयसत्कस्थितिबन्धद्वयप्रदर्शनद्वारेण व्यासतः चतुःपञ्चाशद्गाथाभिः प्रदर्श्यते। तथाहिभवभवदुहदवनीरं, नमिउं वीरं सुरिंदगिरिधीरं। मूलियरपयडिसमुदयठिइबंधमहं लिहे दुविहं।।१।। मुत्तुमकसायि हुस्सा, ठिइ वेयणियस्स बारसं मुहुत्ता। अटुट्ठनामगोयाण, सेसयाणं मुहत्तंतो।।२।। मोहे कोडाकोडीउ, सत्तरई वीस नामगोयाणं। तीसियराण चउण्हं, तेतीसयराइं आउस्स।।३।।
(प्रवचनसारोद्धार-१२८०, सूक्ष्मार्थसारोद्धार-६४) इति मूलप्रकृतिषु ओघतः स्थितिबन्धद्वयमुक्तम्, विभागतस्तु स्वयमेव ज्ञातव्यमेकेन्द्रियादिस्वामितया । चऊयाले पगडिसए, इगविगला सन्निणं दुविहबंध। नाउं गुरुठिइसहिया, पढमं लिह पयडि बारसहा।।४।। करणावि सया तित्थाहारगसगसम्ममीसआउचऊ। चउदस मुत्तुं अडवनसया भुयालं सयं गहियं ।।५।। सुगमा। अथ पूर्वगाथापक्रान्ताः सगुरुस्थितिका द्वादशधा प्रकृतय इमाःबावीसं दसिगाउ दु, बार दु द्धतेर दुन्नि चउदसिगा। छ पन्नार दु सोला, दु द्धठारा अट्ठ अट्ठारा।।६।। इगसट्ठी वीसिक्का, वीसंतीसिक्क सोल चालीसा। एगा उ सत्तरिक्का, सगुरुठिई पयडि बारसिमा।।७।। अथैतस्य द्वादशविधप्रकृतिसमुदयप्रतिपादकस्य द्वारगाथाद्वयस्य विवरणरूपं गाथासप्तकमाहआइमसंघयणागिइहासरइपुमुच्चसुगइथिरछक्कं। सियमुहुसुरहिमिउलहुरसुरदुगनिहुण्ह बावीसा।।८।।