________________
भवभावना ३०८
[मू] कलहकरी मह भज्जा, असंवुडो परियणो पहू विसमो। देसो अधारणिज्जो, एसो वच्चामि अन्नत्थ ॥ ३०५ ॥ [कलहकारिणी मम भार्या असंवृत्तः परिजनः प्रभुर्विषमः । देशश्च अधारणीय एष व्रजाम्यन्यत्र ॥ ३०५ ॥]
[मू] जलहिं पविसेमि महिं, तरेमि धाउं धमेमि अहवा वि। विज्जं मंतं साहेमि देवयं वा वि अच्चेमि ॥ ३०६ ॥
[जलधिं प्रविशामि महीं तरामि धातुं धमामि अथवापि। विद्यां मन्त्रं साधयामि देवतां वापि अर्चामि ॥ ३०६ ॥]
[मू] जीवइ अज्ज वि सत्तू, मओ य इट्ठो पहू य मह रुट्ठो । दाणिग्गहणं मग्गंति विहविणो कत्थ वच्चामि ? ॥ ३०७ ॥ [जीवत्यद्यापि शत्रुः मृतश्च इष्टः प्रभुश्च मम रुष्टः ।
इदानीं ग्रहणं मार्गयन्ति विभविनः कुत्र व्रजामि ? || ३०७||] [मू] इच्चाइ महाचिंताजरगहिया निच्चमेव य दरिद्दा । किं अणुहवंति सोक्खं ?, कोसंबीनयरिविप्पो व्व ॥३०८॥
[इत्यादिमहाचिन्ताज्वरगृहीता नित्यमेव च दरिद्राः ।
किमनुभवन्ति सौख्यम् ? कौशाम्बीनगरीविप्र इव ॥ ३०८ ॥]
[अव] नत्थि. इत्यादि नवगाथाः पाठसिद्धाः।
कथानकं चेदम्
८५
[सोमिलद्विजकथा]
कौशाम्ब्यां सोमिलो द्विज आजन्मदरिद्रः । भार्यापुत्रपुत्र्यादिकुटुम्बं बहु। अन्यदा धनार्जनाय देशान्तरं गतः। वाणिज्यादिरहितं न भोगं योगिनमद्राक्षीत् । द्विजं चिन्तातुरं पृच्छति। 'का चिन्ता तव?' 'दारिद्र्यं चिन्ताकारि' स आह-' त्वमीश्वरं करोमि, यदहं कथयामि तत् त्वया कार्यम्।' द्वावपि पर्वतनिकुञ्जे गतौ । योग्याह - 'एष हेमरस: शीतातपादिसहमानैः शुष्ककन्दमूलफलाशिभिः शमीपत्रपुरैर्मील्यते।' द्वाभ्यामपि ततस्तथैव रसो गृहीतः। भृतं तुम्बम्। निर्गतौ वनात्। योग्याह-“भो ! अप्रमत्तेन तुम्बं धार्यं, दुःखेण षण्मासैर्मीलितोऽयं रसः।” इत्येवं पुनः पुनः कथने रुष्टो विप्रः। ढोलितं तुम्बं सागपत्रैः इतस्ततः, क्षिप्तो रसः सर्वो गतस्ततो योग्यन्यत्र तमयोग्यं ज्ञात्वा । गृहागतः