________________
भवभावना-२८४
७९
[बलसारकथा [अव] कथानकमिदम् ललितपुरे बलसारो राजा, ललिताङ्गी राज्ञी, तयोरनपत्यता दुःखम्। अन्यदा निशीथे वेणुवीणारवमधुरं गीतं श्रुत्वा तदनुसारेण स वने प्राप्तः। प्रेक्षते स्म तत्र विद्याधरान् जिनायतने सङ्गीतं कुर्वन्तः। ते च सङ्गीतं कृत्वा निर्गताः। इतश्च खेचरा अपि {दे}समायाताः। लग्नमुभयोर्युद्धम्। तानि बलानि युध्यमानानि दूरं गतानि। स्थिता एका खेचरी। इतश्चैकः खेचरः तस्यापहाराय तत्रागतः। तया पूत्कारः कृतः। राजा प्रधावितः। खेचरेण सह युद्धं चक्रे। निहतः खेचरः। भूपोऽपि प्रहारविधुरो जातः। इतश्च खेचरीभर्ता समायातः। तेन राजा संरोहिण्यौषध्या सज्जीकृतः। [कथितश्च स्ववृत्तान्तः] वैताढ्ये सुवर्णकेतुखेचरेन्द्रस्य चन्द्रशेखरनामाहं सुतः। मयि वैरिणा समं युद्धव्यापृतेऽसौ मम भार्या द्विषापह्रियमाणा त्वया रक्षिता।” ततो मनश्चिन्तितदायिनीमौषधिमर्पयित्वा गतः। खेचरो राजा स्वगृहमायातः। औषधिप्रभावात् पुत्रो जातः भुवनसारनामा। एको मासः सञ्जातः। दाहशिरोऽर्तिशूलमूत्रोच्चारनिरोधाध्मातदाहशोषकासश्वासादिरोगैः पीडितः। कृताः प्रभूता उपचाराः। न जातो गुणः। मत्स्य इव स बालो महार्तिग्रस्तो तल्लोवेल्लिं कुर्वन् मृतः। राजा तदुःखदुःखितः स्वपुत्रस्वल्पजीवितत्वे हेतुं ज्ञानिपार्श्वे पृच्छति। ज्ञानी स्माह-“प्राग्भवे तव पुत्रजीवेन मिथ्यादृशाज्ञानतपः कृतम्, स्नानादिना जीवहिंसा कृता, तेनाल्पायुर्जातः” इति श्रुत्वा बलसार: प्रव्रज्य शिवंगतः॥ इति बलसारकथा॥२८१॥ [म] तरुणत्तणम्मि पत्तस्स धावए दविणमेलणपिवासा। सा का वि जीई न गणइ देवं धम्मं गुरुं तत्तं॥२८२॥
[तरुणत्वे प्राप्तस्य धावति द्रविणमेलनपिपासा।
सा कापि यस्यां न गणयति देवं धर्म गुरुं तत्त्वम्॥२८२॥] [म] तो मिलइ कह वि अत्थे, जइ तो मुज्झइ तयं पि पालंतो। बीहेइ राइतक्करअंसहराईण निच्चं पि॥२८३॥
ततो मेलयति कथमपि अर्थान् यदि ततो मुह्यति तकमपि पालयन्।
बिभेति राजतस्करांशहरादिभ्यो नित्यमपि।।२८३॥] [म्] वड्ढंते उण अत्थे, इच्छा वि कह वि तह दूरं।
जह मम्मणवणिओ इव, संतेऽवि धणे दुही होइ॥२८४॥ १. अत्थो इति पा. प्रतौ।