________________
भवभावना-२७४
७७
[मू] गब्भदुहाई दटुं, जाईसरणेण नायसुरजम्मो। सिरितिलयइब्भतणओ, अभिग्गहं कुणइ गब्भत्थो॥२७२॥
[गर्भदःखानि दृष्ट्वा जातिस्मरणेन ज्ञातसुरजन्मा। श्रीतिलकेभ्यतनयोऽभिग्रहं करोति गर्भस्थः॥२७२॥]
[श्रीतिलकसुतकथा] [अव] कथानकं चेदम् मगधदेशे कुल्लागप्रदेशे सिरिदत्तो वणिग् धनवान्जिनधर्मरतो ज्ञातसंसारपरमार्थः तस्यान्यदा भार्यावैराग्यात् श्रीदत्तो दीक्षां प्रपद्यते। अधीतसूत्रो दुष्करतपःपरः परीषहसहः जितेन्द्रियकषायो निष्प्रतिकर्मशरीरः स्मशाने प्रतिमया तस्थौ। इतश्च तन्निश्चलतां दृष्ट्वा शक्रः प्रशशंस। एकः सुरोऽश्रद्दधानोऽत्रागत्य श्रीदत्ताभिधमुनि भीमाट्टहासकरण-करि-व्याघ्र-भीमभुजङ्गसर्वतोमुखदवानलज्वालाप्रचण्डपवन-धूलिपुञ्ज-वज्रमुखकीटिकावृश्चिकादिभिः प्रतिकूलैरुपसर्गरुपद्रवन् क्षोभयामास। परं स न चुक्षोभ। सन्तुष्टो देवः क्षमयित्वा स्वर्गतः। श्रीदत्तोऽपि चिरं चारित्रमाराध्य सप्तमं स्वर्गं गतः। इतश्च साकेतपुरे श्रीतिलकव्यवहारिणो जिनधर्मरतस्य भार्या यशोमत्याः कुक्षौ सप्तमस्वर्गात् च्युत्वा पुत्रत्वेनोत्पद्यते। अष्टमे मासे गर्भस्थ एव जनन्यां धर्मं शृण्वन्त्यां सोऽपि शृणोति। जातिस्मरणमुत्पन्नम्। जातमात्रे मया प्रव्रज्यासमये सा प्रव्रज्या गृह्यते इत्यभिग्रहमगृह्णत्। तत्र पद्म इति नाम कृतम्। अष्टवार्षिक:७२(द्वासप्तति) कलाकुशलोमातर(तृ)पितरावापृच्छय गुरुपार्श्व प्रव्रज्य तपः कृत्वा शिवं प्राप्तः॥ इति श्रीतिलकसुतकथा॥
ननु नवमासमात्रान्तरितमपि प्राक्तनं भवंजीवः किं न स्मरतीत्याह[v] अइविस्सरं रसंतो, जोणीजंताओ कह वि णिप्फिडइ। माऊऍ अप्पणोऽवि य, वेयणमउलं जणेमाणो॥२७३॥
[अतिविस्वरं रसन् योनियन्त्रात् कथमपि निर्गच्छति।
मातुरात्मनोऽपि च वेदनामतुलां जनयन्॥२७३।] [मू] जायमाणस्स जं दुक्खं मरमाणस्स जंतुणो। तेण दुक्खेण संतत्तो न सरइ जाइमप्पणो॥२७४॥
[जायमानस्य यद दुःखं म्रियमाणस्य जन्तोः।
तेन दुःखेन सन्तप्तो न स्मरति जातिमात्मनः॥२७४॥] [अव] ननु य एते जायमानाः पुत्रादयो दृश्यन्ते ते किं गर्भे व्यवस्थिताः तद्भावेन