________________
भवभावना-२६९
[सूचीभिरग्निवर्णाभिः भिद्यमानस्य जन्तोः।
यादृशं जायते दुःखं गर्भेऽष्टगुणं ततः॥२६८॥ [] पित्तवसमंससोणियसुक्कट्टिपुरीसमुत्तमज्झम्मि।
असुइम्मि किमि व्व ठिओ, सि जीव ! गब्भम्मि निरयसमे॥२६९॥ __ [पित्तवशामांसशोणितशुक्रास्थिपुरीषमूत्रमध्ये।।
अशुचौ कृमिरिव स्थितोऽसि जीव ! गर्भे निरयसमे॥२६९॥॥] [अव] इति एवं कोऽपि दुःखितः पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादशसंवत्सराणि निरन्तरं तिष्ठति। कथम्भूते? शुक्रशोणितादिभ्योऽशुचिद्रव्येभ्यो प्रभव उत्पत्ति स तथा तस्मिन्निति अशुचिस्वरूप एव शुक्रशोणितेऽशुचिरूपे = मलसञ्चयाविले इत्यर्थः। भवस्थितिश्चैषा कायस्थितिमाश्रित्य कोऽपि द्वादशवर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनर्वादशवर्षाणि जीवतीत्येवं चतुर्विंशति वर्षाण्युत्कर्षतो गर्भजन्तुरवतिष्ठते। एतदप्यु(नु)क्तमपि स्वयमेव द्रष्टव्यम्॥२६५॥२६६॥२६७॥२६८॥२६९॥ ___गर्भाच्च योनिमुखे[न] निर्ग[च्छतस्] तस्य सम्यक्स्वरूपस्येतरस्य च स्वरूपमाह[] इय कोइ पावकारी, बारस संवच्छराइं गन्भम्मि। उक्कोसेणं चिट्ठइ, असुइप्पभवे असुइयम्मि॥२७०॥
[इह कश्चित् पापकारी द्वादश संवत्सरान् गर्भ।
उत्कृष्टेन तिष्ठति अशुचिप्रभवेऽशुचौ॥२७०॥] [म] तत्तो पाएहिं सिरेण वा वि सम्मं विणिग्गमो तस्स। तिरियं णिग्गच्छंतो, विणिवायं पावए जीवो॥२७१॥
ततः पादाभ्यां शिरसा सम्यग् विनिर्गमस्तस्य।
तिर्यग् निर्गच्छन् विनिपातं प्राप्नोति जीवः।।२७१॥] [अव] ततो गर्भाधोनिमुखे पादाभ्यांशीर्षेण वा तस्य जीवस्य निर्गमो भवति। अथ कथमपि तिर्यग्व्यवस्थितो निर्गच्छति तदा जननी गर्भश्च द्वावपि विनाशं प्राप्नुतः॥२७०॥२७१॥
१. गब्भाओ निहरंतस्स जोणिजंतनिपीलणे। सहसाहस्सियं दुक्खं कोडाकोडिगुणं वि वा।। (छाया-गर्भाद् निःसरतो योनियन्त्रनिपीलने। शतसाहसिकं दुःखं कोटाकोटिगुणमपि वा।।) एषा गाथा अधिका क्वचिद् मूले मु. ब.।