________________
भवभावना-२६०
७३
[मू] होइ पलं करिसूणं, पढमे मासम्मि बीयए पेसी। होइ घणा तइए उण, माऊए दोहलं जणइ॥२५६॥
[भवति पलं कर्षोनं प्रथमे मासे द्वितीये पेशी।
भवति घनः तृतीये पुनः मातुः दौहृदं जनयति॥२५६॥] [अव] इह च ततः शुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे प्रसिद्धं पलं कर्षानं भवन्ति। पलं च कर्षचतुष्टयं स्याद् इति वचनात् त्रयः कर्षाः स्युरिति भावः। द्वितीये तु मासे मांसपेशी घनाघनस्वरूपा भवति, समचतुरस्रं मांसखण्ड जायत इत्यर्थः। तृतीये मासे तुमातुर्दोहदंजनयतीत्यर्थः॥२५६॥ [मू] जणणीए अंगाई, पीडेई चउत्थयम्मि मासम्मि। करचरणसिरंकूरा, पंचमए पंच जायंति॥२५७॥
[जनन्या अङ्गानि पीडयति चतुर्थे मासे।
करचरणशिरोऽङ्कुराः पञ्चमे पञ्च जायन्ते॥२५७।।] [म] छट्टम्मि पित्तसोणियमुवचिणेइ सत्तमम्मि पुण मासे। पेसिं पंचसयगुणं, कुणइ सिराणं च सत्तसए॥२५८॥
[षष्ठे पित्तशोणितपित्तशोणितमुपचिनोति सप्तमे पुनर्मासे।
पेशीं पञ्चशतगुणं करोति सिराणां च सप्त शतानि॥२५८॥] [मू] नव चेव य धमणीओ, नवनउइं लक्ख रोमकूवाणं। अछुट्ठा कोडीओ, समं पुणो केसमंसूहि॥२५९॥
[नव चैव च धमन्यो नवनवतिर्लक्षा रोमकूपानाम्।।
अर्धचतुर्थाः कोटयः समं पुनः केशश्मश्रुभ्याम्॥२५९॥] [अव] नवनवतिलक्षाणि रोमकूपानां भवन्ति। श्मश्रुकेशैर्विना। तैस्तु सह सार्धास्तिस्रो कोट्यो रोमकूपानांजायन्ते॥२५९॥ [मू] निप्फन्नप्पाओ पुण, जायइ सो अट्ठम्मि मासम्मि। ओयाहाराईहि य, कुणइ सरीरं समग्गं पि॥२६०॥
[निष्पन्नप्रायः पुनर्जायते सोऽष्टमे मासे। ओजआहारादिभिश्च करोति शरीरं समग्रमपि॥२६०॥]
१.पीणेइ इति पा. प्रतौ।