________________
७४
भवभावना-२६१
[अव] अष्टमे मासे तु शरीरमाश्रित्य निष्पन्नप्रायो जीवो भवति। शुक्रशोणितसमुदाय ओज इत्युच्यते। तस्यौजस आहार ओजआहारः, आदिशब्दात् लोमादिपरिग्रहः। तैः सर्वैरपि आहारैः समग्रमपिशरीरं भवति॥२६०॥ [] दुन्नि अहोरत्तसए, संपुण्णे सत्तसत्तरी चेव। गब्भगओ वसइ जिओ, अद्धमहोरत्तमन्नं च॥२६१॥
द्वे अहोरात्रशते सम्पूर्णां सप्तसप्ततिं चैव।
गर्भगतो वसति जीवोऽर्धमहोरात्रमन्यच्च॥२६१॥] [अव| अहोरात्रशते सप्तसप्तत्यधिके गर्भगतश्च जीवो वसति। सार्द्धसप्तदिनान्नव मासाँश्च यावद्वसतीत्यर्थः॥२६१॥
कियन्तः पुनर्जीवा एकस्याः स्त्रियो गर्भे एकहेलयैवोत्पद्यन्ते? कियतां च पितॄणामेकः पुत्रो भवतीत्याह[म] उक्कोसं नवलक्खा, जीवा जायंति एगगब्भम्मि। उक्कोसेण नवण्हं, सयाण जायइ सुओ एक्को॥२६२॥
[उत्कृष्टं नव लक्षा जीवा जायन्ते एकगर्भे।
उत्कृष्टेन नवानां शतानां जायते सुत एकः॥२६२॥] [अव] एकस्याः स्त्रियो गर्भे एको द्वौ च त्रयो वोत्कृष्टतस्तु नवलक्षाणि जीवानामुत्पद्यन्ते। निष्पत्तिं च प्राय एको द्वौ वा गच्छतः। शेषास्त्वल्पजीवितत्वाद एव नियन्ते। तथोत्कृष्टानां नवानां पितृशतानामेकः पुत्रो जायते। एतदुक्तं भवति–कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्तमध्ये उत्कर्षतो नवभिः पुरुषैः शतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवति॥२६२॥
गर्भादपि केचिज्जीवा नरकं केचित्तु देवलोकं गच्छन्तीति दर्शयति[मू] गब्भाउ वि काऊणं, संगामाईणि गरुयपावाई। वच्चंति के वि नरयं, अन्ने उण जंति सुरलोयं॥२६३॥
[गर्भादपि कृत्वा सङ्ग्रामादीनि गुरुकपापानि।
व्रजन्ति केऽपि नरकमन्ये पुनर्यान्ति सुरलोकम्॥२६३॥] [अव सुगमा। नवरं पूर्वभविकवैक्रियलब्धिसम्पन्नः कोऽपि