________________
७२
भवभावना-२५३
भेदात् त्रिंशद्विधाः। षट्पञ्चाशदन्तरद्वीपभेदभिन्नाश्चा एवं च समूर्च्छिमगर्भजपर्याप्तापर्याप्तादयोऽपि समयोक्ता भेदा द्रष्टव्याः। इत्येवं तावदनेकविधा मनुष्या भवन्ति। तेषामपि चिन्तय सम्यक्स्वरूपं यदि परमार्थतः किमपिसौख्यमस्तीति भावः॥२५१॥२५२॥ [मू] मोहनिवनिबिडबद्धो, कत्तो वि हु कड्ढिउं असुइगब्भे। चोरो व्व चारयगिहे, खिप्पइ जीवो अणप्पवसो॥२५३॥
मोहनृपनिबिडबद्धः कुतोऽपि खलु कृष्ट्वा अशुचिगर्थे।
चौर इव चारकगृहे क्षिप्यते जीवोऽनात्मवशः॥२५३॥] [अव] कुतो = नरकतिर्यगादिगतिभ्यः समाकृष्यानात्मवशश्चौर इव चारकगृहेऽशुचिस्वरूपे गर्भः क्षिप्यते जीव इति॥२५३॥ ___ गोत्पन्नः किमाहारयतीत्याह[] सुक्कं पिउणो माऊए सोणियं तदुभयं पि संसटुं। तप्पढमयाएँ जीवो, आहारइ तत्थ उप्पन्नो॥२५४॥
[शुक्रं पितुः मातुः शोणितं तदुभयमपि संसृष्टम्।
तत्प्रथमतया जीव आहारयति तत्रोत्पन्नः॥२५४॥] [अव] तच्च तदुभयं शुक्रशोणितरूपं संस्पृष्टम् = मिलितं तत्र गर्भे उत्पन्नो जन्तुरभ्यवहरति। कयेत्याह तच्च तत्प्रथमं च तद्भावस्तत्ता तया प्रथममत्पन्न इति॥२५४॥
ततः केन क्रमेण शरीरं निष्पद्यते तदित्याह[मू] सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं। अब्बुया जायए पेसी, पेसीओ य घणं भवे॥२५५॥
[सप्ताहं कललं भवति सप्ताहं भवति अर्बुदम्।
अर्बुदाज्जायते पेशी पेशितश्च घनं भवेत्॥२५५॥] [अव] सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति। ततः सप्ताहोरात्राणि अर्बुदा भवति। ते एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येते इति। ततोऽपि चार्बुदा[त्] पेशी मांसखण्डरूपा भवति। ततश्चानन्तरं सा घनं समचतुरस्रमांसखण्डं भवति॥२५५॥