________________
भवभावना-२५२
७१
अन्यदा देशान्तरं त्रयोऽपि वणिजो धनार्जनाय गताः। मुग्धजनवञ्चनादिभिस्तैः पञ्च रत्नानि पञ्चलक्षमूल्यान्यर्जितानि गृहीत्वा स्वपुरमायान्ति। किञ्चिन्मिथः कूटप्रपञ्चेन वञ्चनां चिकीर्षवो भणन्ति “रत्नानि बहिरत्र निधाय सम्प्रति पुरमध्ये गम्यते, रात्रौ ग्रहीष्यन्ते रत्नानि यथा शौक्लिका न पश्यन्ति” तैस्तथा कृते केनाप्यन्येन तानि निहितानि ज्ञातानि पञ्च पाषाणखण्डानि क्षिप्त्वा रत्नानि गृहीतानि। रात्रौ सोमेन समागत्यान्धकारे पञ्च पाषाणखण्डानि क्षिप्त्वाग्रेतनानि तानि गृहीतानि। एवमपरैरपि कृतम्। प्रातर्विलोकितं तैः पाषाणखण्डानि पश्यन्ति। जाता विलक्षास्ते। बहिर्गत्वा विलोकितं तैः। तत्र पाषाणखण्डानि पश्यन्ति। मिथः कलहायन्ते। रत्नान्येव ध्यायन्ति। कालेन मृत्वा तिर्यग्गतौ गताः। अनन्तं कालं भ्रान्ताः॥ इति श्रावस्तीवणिक्कथा॥ इति तिर्यग्गतेरवचूरिः॥
तदेवं तिर्यगतिस्वरूपमभिधाय मनुष्यगतिप्रस्तावनामाह[म] कालमणंतं एगिदिएसु संखेज्जयं पुणियरेसु। काऊण केइ मणुया, होंति अतो तेण ते भणिमो॥२५०॥
कालमनन्तमेकेन्द्रियेषु सङ्ख्येयं पुनःइतरेषु ।
कृत्वा केचित् मनुजा भवन्ति अतः तेन तान् भणामः॥२५०॥] यथाप्रतिज्ञातमेवाह[मू] कम्मेयरभूमिसमुब्भवाइभेएणऽणेगहा मणुया। ताण विचिंतसु जइ अत्थि किं पिपरमत्थओ सोक्खं॥२५१॥
[कर्मेतरसमुद्भवादिभेदेनानेकधा मनुजाः।
तेषां विचिन्तय यदि अस्ति किमपि परमार्थतः सौख्यम्॥२५१॥] [मू] गब्भे बालत्तणयम्मि जोव्वणे तह य वुड्ढभावम्मि। चिंतसु ताण सरूवं, निउणं चउसु वि अवत्थासु॥२५२॥
[गर्भे बालकत्वे यौवने तथा च वृद्धभावे। ___ चिन्तय तेषां स्वरूपं निपुणं चतसृष्वप्यवस्थासु॥२५२॥]
[अव] मनुष्या द्विविधाः। कर्मभूमिजा अकर्मभूमिजाश्च। कर्मभूमिजा भरतैरावतविदेहपञ्चकजाः। अकर्मभूमिजा हैमवतहरिवर्षदेवकुरूत्तरकुरुरम्यकैरण्यवतपञ्चक
१. होऊण इति पा. प्रतौ।, २.किंचि अत्थि इति पा. प्रतौ।