________________
भवभावना-२४४
[] तत्थेव य सच्छंद, मुद्दियलयमंडवेसु हिंडंतो। जणएण पासएहिं, बद्धो खद्धो य जणणीए॥२४२॥
[तत्रैव च स्वच्छन्दं मृद्वीकालतामण्डपेषु हिण्डमानः।
जनकेन पाशकैः बद्धो भक्षितश्च जनन्या॥२४२॥] [अव] तत्रैव शुकभवे महाटव्यां द्राक्षामण्डपेषु हिण्डमानः शेषं स्पष्टम्। भावार्थः कथानकगम्यस्तच्चेदम्
[वसुदत्तकथा] काञ्चनपुरे वसुदत्तः सार्थवाहो, भार्या वसुमती वरुणसुतः तयोरत्यन्तं प्राणप्रियः। अन्यदा वरुणो देशान्तरं गत्वा प्रभूता धनकोटीरुपाय॑ वलन्नटव्यां शूलेन मृत्वा राजशुको जातः। धनं कियद्गतं कियत्पितुः प्राप्तम्। तच्छोकतो हृदयस्फोटेन वसुमती मार्जारी तत्रैव गृहे जाता। अन्यदा वसुदता(तो) देशान्तरं गत्वा प्रभूतधनमर्जयित्वा तस्यामेवाटव्यामायातस्तत्र स शुकोऽस्ति सुतजीवः। भवितव्यतावशात् सहकारशाखायांतं सुतशुकं दृष्ट्वा पाशेन तेन गृहीतः। स्वगृहे नीत्वा पञ्जरे क्षिपति। अतिस्नेहेन तं लालयति पाठयति च। अन्यदा रात्रौ पञ्जरद्वारं विवृतं दृष्ट्वा तया मार्जार्या गृहीतो विनाशितश्च। इतश्च तत्र पुरे केवली प्राप्तः। सार्थवाहः पृच्छति “किं मम शुकोपरि मोहः।” ज्ञानी सर्वं वक्ति। ततो वैराग्याद् वसुदत्तः प्रव्रज्य शिवं गतः। इति वसुदत्तकथानकम्॥२४२॥
एवं तिरश्चामति बहुत्वात् प्रत्येकं सर्वेषां स्वरूपमभिधातुमशक्यत्वादुपसंहरन्नाह[] इय तिरियमसंखेसुं, दीवसमुद्देसु उड्ढमहलोए। विविहा तिरिया दुक्खं, च बहुविहं केत्तियं भणिमो ?॥२४३॥
[इति तिर्यगसङ्ख्येषु द्वीपसमुद्रेषु ऊर्ध्वमधोलोके।
विविधास्तिर्यञ्चो दुःखं च बहुविधं कियद् भणामः ?॥२४३॥] [अव] सुगमा॥२४३॥ [मू] हिमपरिणएसु सरिसरवरेसु सीयलसमीरसुढियंगा। हिययं फुडिऊण मया, बहवे दीसंति जं तिरिया॥२४४॥
[हिमपरिणतेषु सरित्सरोवरेषु शीतलसमीरसङ्कुचिताङ्गाः। हृदयं स्फोटयित्वा मृता बहवो दृश्यन्ते यत् तिर्यञ्चः॥२४४॥]