________________
६८
भवभावना-२३८
[पार्श्वेषु ज्वलितज्वलनेषु कूटयन्त्रेषु आमिषलवेषु।
पतितोऽज्ञानान्धो बद्धो खादितः निरुद्धश्च॥२३७॥] [अव] तिस्रोऽपि गाथाः पाठसिद्धाः॥२३७॥
अथ विशेषतः कुर्कुटमाश्रित्याह[मू] पडिकुक्कुडनहरपहारफुट्टनयणो विभिन्नसव्वंगो। निहणं गओ सि बहुसो, वि जीव ! परकोउयकएण॥२३८॥
[प्रतिकुकुंटनखप्रहारस्फुटितनयनो विभिन्नसर्वाङ्गः।।
निधनं गतोऽसि बहुशोऽपि जीव ! परकौतुककृतेन॥२३८||] [अव] गतार्था। नवरं कौतुकिना केनापि योध्यमानेषु परकौतुकनिमित्तमनन्तशो विनाशं गतोऽसि रे जीव! तदेतच्चेतसि विचिन्त्य तथा कुरु यथेदृक्षस्थानेषु नोत्पद्यसे इत्यर्थः॥२३८॥
अथ शुकमाश्रित्याह[म] झीणो सरिउं सहपिययमाए रमियाइं सालिछेत्तेसु। खित्तो गोत्तीइ व पंजरट्ठिओ हंत कीरत्ते॥२३९॥
[क्षीणः स्मृत्वा सह प्रियतमया रतानि शालिक्षेत्रेषु।
क्षिप्तो गुप्ताविव पञ्जरस्थितो हन्त कीरत्वे॥२३९॥] [म] भमिओ सहयारवणेसु पिययमापरिगएण सच्छंद। सरिऊण पंजरगओ, बहुं विसन्नो विवन्नो य॥२४०॥
[भ्रान्तः सहकारवनेषु प्रियतमापरिगतेन स्वच्छन्दम्।
स्मृत्वा पञ्जरगतो बहुविषण्णो विपन्नश्च॥२४०॥] [] गहिओ खरनहरबिडालियाए आयड्ढिऊण कंठम्मि। चिल्लंतो विलवंतो, खद्धो सि तहिं तयं सरसु॥२४१॥
[गृहीतः खरनखरबिडालिकया आकृष्य कण्ठे।
रसन् विलपन् खादितोऽसि तत्र तत् स्मर॥२४१॥] [अव] कीरत्वे=शुकजन्मनि तहिं पि। शुकजन्मन्येव शेषं स्पष्टम्॥२४१॥
अत्रापि संसारासमञ्जसतोपदर्शनार्थं जनकजनन्यादिभिर्बन्धनभक्षणादीनि शुकस्य सोदाहरणमाह