________________
भवभावना- २३७
बडिशम्=प्रलम्बवंशाग्रन्यस्तलोहमयकीलकरूपम्। तत्र लोहकिलिकाग्रन्यस्तो
य आमिषलवस्तत्र लुब्धः॥२३३॥
इह च मत्स्यभवे समुत्पन्नजीवाः पित्रादिना भक्ष्यन्ते इति संसारासमञ्जसतां
दर्शयति
[मू पियपुत्तो वि हु मच्छत्तणं पि' जाओ सुमित्तगहवड़णा । बिडिसेण गले गहिओ, मुणिणा मोयाविओ कह वि॥२३४॥
[प्रियपुत्रोऽपि खलु मत्स्यत्वमपि जातः सुमित्रगृहपतिना। डशे गले गृहीतो मुनिना मोचितः कथमपि ॥ २३४॥] [अव] प्रकटार्था। भावार्थः कथानकादवसेयः। तच्चेदम्
[सुमित्रगृहपतिकथा]
६७
पद्मसरग्रामे सुमित्रो गृहपतिस्तस्यापुत्रस्य वृद्धत्वे पुत्रो जातः। प्राणप्रियस्तं विना स क्षणमपि न तिष्ठति। षोडशे वर्षे पुत्रो मृत्वा मत्स्यो जातः । अन्यदा सुमित्रेण स एव मत्स्यो बडिशेन गले गलितः। ज्ञानिना सम्यक् स्वरूपं कथितम् । स मोचितः । सुमित्रः प्रतिबोधितः। प्रव्रज्य देवलोकं गतः। इति सुमित्राख्यानकम्॥२३४॥
अथ सामान्येनात्मानुशास्तिगर्भं खचराणां स्वरूपमाह
[मू पक्खिभवेसु गसंतो, गसिज्जमाणो य सेसपक्खीहिं । दुक्खं उप्पायंतो, उप्पन्न हो य भमिओ सि ॥ २३५॥ [पक्षिभवेषु ग्रसन् ग्रस्यमानश्च शेषपक्षिभिः। दुःखमुत्पादयन्नुत्पन्नदुःखश्च भ्रान्तोऽसि ॥ २३५॥]
[मू] खरचरणचवेडाहि य, चंचुपहारेहिं निहणमुवणेंतो। निहणिज्जंतो य चिरं, ठिओ सि ओलावयाईसु ॥ २३६ ॥ [खरचरणचपेटाभिश्च चञ्चुप्रहारैः निधनमुपनयन्। निहन्यमानश्च चिरं स्थितोऽसि श्येनादिषु॥२३६॥]
[मू] पासेसु जलियजलणेसु कूडजंतेसु आमिसलवेसु । पडिओ अन्नाणंधो, बद्धो खद्धो निरुद्धो य॥ २३७॥
१. मच्छत्तणम्मि इति पा. प्रतौ।