________________
६६
भवभावना- २२९
[मू] जाले बद्धो सत्थेण छिंदिउं हुयवहम्मि परिमुक्कों । भुत्तो य अणज्जेहिं, जं मच्छभवे तयं सरसु॥२२९॥ [जाले बद्धः शस्त्रेण छित्त्वा हुतवहे परिमुक्तः । भुक्तश्चानार्यैः यद् मत्स्यभवे तत् स्मर॥२२९॥]
[मू] छेत्तूण निसियसत्थेण खंडसो उक्कलंततेल्लम्मि। तलिऊण तुट्ठहियएहि हंत भुत्तो तहिं चेव॥२३०॥
[छित्त्वा निशितशस्त्रेण खण्डश उत्कलमानतैले। तलित्वा तुष्टहृदयैः हन्त भुक्तस्तत्रैव॥२३०॥]
[मू जीवंतो वि हु उवरिं, दाउं दहणस्स दीणहियओ य। काऊण भडित्तं भुंजिओऽसि तेहिं चिय तहिं पि॥२३१॥ [जीवन्नपि खलु उपरि दत्त्वा दहनस्य दीनहृदयश्च। कृत्वा भटित्रं भुक्तोऽसि तैश्चैव तत्रापि॥२३१॥]
[मू] अन्नोऽन्नगसणवावारनिरय अड़कूरजलयरारद्धो ।
तसिओ गसिओ मुक्को, लुक्को ढुक्को य गिलिओ य॥२३२॥
[अन्योन्यग्रसनव्यापारनिरतातिक्रूरजलचरारब्धः।
त्रस्तो ग्रस्तो मुक्तो नष्टः ढौकितश्च गलितश्च॥२३२॥]
[मू] बडिसग्गनिसियआमिसलवलुद्धो रसणपरवसो मच्छो । गलए विद्धो सत्थेण छिंदिरं भुंजिउं भुत्तो ॥ २३३॥
[बडिशाग्रन्यस्तामिषलवलुब्धा रसनापरवशो मत्स्यः।
गलके विद्धः शस्त्रेण छित्त्वा भृष्ट्वा भुक्तः॥२३३॥]
[अव] पञ्चापि गाथाः स्पष्टाः ॥ नवरं तहिं ति । तैरेवानार्यैरन्योन्यग्रसनव्यापारनिरताश्च तेऽतिक्रूरजलचराश्च तैरारब्धो मत्स्यः कदाचित् त्रस्तः ततो धावित्वा तैर्ग्रस्तो गलितुमारब्धः पुनर्दैवयोगाद् गलितुमशक्तैः कथमपि मुक्तस्ततो भीत्या क्वापि जलमध्ये लब्धो नष्टः। पुनर्दैवप्रतिकूलतया कथमपि ढुक्को त्ति तैः प्राप्तो गलितश्चेति॥२२९॥
१. परिपक्को इति पा. प्रतौ।