________________
६४
भवभावना-२२३
ज्ञेयमितरोऽन्यासक्तो जातः।” गृहीत्वा द्वाभ्यां माला क्षिप्ता स्वस्वकण्ठे, जातः प्रत्ययः। ततोऽन्यदा तां क्वापि सुस्थाने धवलगृहे स्थापयित्वा स अयोध्यायां गत्वा नृपं सेवते। नृपदत्तं प्रभूतं द्रव्यं तस्याः प्रेषयति। एकदा तत्र पुष्पाणि टितानि, द्रव्येणापि न लभ्यन्ते। राजा पुष्पगन्धमाघ्राय सेवकान् पृच्छति। ते सूरपार्श्वसन्तीति वदन्ति। राज्ञा तत्स्वरूपं पृष्टः सयथास्थितमाह।
ततो राज्ञा तत्पत्न्याः सतीत्वमश्रद्दधानेन किन्नरगन्धर्वकोकिलनामानः त्रयो गायना मधुरस्वरा दिव्यरूपाः प्रच्छन्नं प्रहिताः। ते च गायन्तो लोकं रञ्जयन्ति। विरहनिबद्धगीतैः तद्भार्यामाक्षिपन्ति। स्वविरूपाभिप्रायं ज्ञापयन्ति प्रकारेण। ततस्तयोक्तं “कल्ये रात्रौ पृथक् पृथक् प्रहरान्ते त्रिभिरागन्तव्यम्।” भूमिगृहोपरितनभूभागे तन्तुव्यूताः पल्यङ्कास्त्रयो गर्तद्वारोपरि स्थापिताः। ते कृतशृङ्गारा आगतास्तत्र निवेशिताः। ते तु भूमिगृहे भोजनवेलायां त्रयाणामर्द्धमात्रया कोद्रवकूर जलगर्गरिकां च क्षिपति। ततः षण्मासान्ते कर्पासतूणिकेव कृशाः पाण्डुराश्च जाताः। अन्यदा बहुविलम्बं सहेतुकं विभाव्य राजा सूरमाह-“तव प्रियां शीलवतीं द्रष्टुमिच्छामि।” “ओम” इत्युक्तम्। राजा तेन सह प्रच्छन्नं तत्र गतः। सर्वस्वरूपं प्रोक्तम्। तयापि राजा भोजनाय निमन्त्रितस्ते त्रयोऽपि भूमिगृहान्निष्कास्य देवालयपट्टे उपवेशिताः सर्वाङ्गपुष्पवेष्टिताः। राजा आगतः। देवतात्रयमिति विचिन्त्य यावत्तेषां पादेषु पतति तावत्तैरुक्तम्–“स्वामिन्! वयं तव भृत्याः किन्नरादय ईदृशीं दशां प्राप्ताः। मा पादेषु पत।” उत्थाय प्रणमन्ति। तैः स्वरूपं सर्वमुक्तम्। राजा तुष्टः सती प्रशंसयति–“पवित्रीयतां मत्पुरं युवाभ्याम्” इति। सूरश्चन्द्रवदनायुतः प्राप्तोऽयोध्यायाम्। राज्ञार्पितः सप्तभूमः प्रासादः सूरस्य, कृतो महाप्रासादः। अन्यदा सूरः शूकरमांसादिभुञ्जानोऽतिशयज्ञानिना निवारितः-“किं पितृमांसमास्वाद्यते?” इति। अनेन च पृष्टे ज्ञानी प्राह “तव पिता दृढरथो मृत्वायं शूकरो जातः।” सूरो जातसंवेगः प्रियायुतः प्रव्रज्य तपः कृत्वा शिवं गतः। इति शुकर(सूर)राजकथा॥
अथ हस्तिनमधिकृत्याह[मू लुद्धो फासम्मि करेणुयाए वारीए निवडिओ दीणो। झिज्जइ दंती नाडयनियंतिओ सुक्खरुक्खम्मि॥२२३॥
[लुब्धः स्पर्श करेणुकाया वारौ निपतितो दीनः। क्षयति दन्ती नाडकनियन्त्रितः शुष्कवृक्षे।।२२३॥]