________________
भवभावना-२२२
अथशूकरमधिकृत्यात्मानुशास्तिमाह[मू] पज्जलियजलणजालासु उवरि उल्लंबिऊण जीवंतो। __ भुत्तोऽसि भुजिउं सूयरत्तणे किह न तं सरसि ?॥२२०॥
[प्रज्वलितज्वलनज्वालासु उपर्युल्लम्ब्य जीवन्।
भुक्तोऽसि भर्जित्वा शूकरत्वे कथं न त्वं स्मरसि ?॥२२०॥] [] गहिऊण सवणमुच्छालिऊण वामाओ दाहिणगयम्मि। सुणयम्मि तओ तत्थ वि, विद्धो सेल्लेण निहण गओ॥२२१॥
गृहीत्वा श्रवणमुच्छाल्य वामाद् दक्षिणगते।
शुनके ततः तत्रापि विद्धः सेल्लेन निधनं गतः॥२२१॥] [अव] स्पष्टा। नवरं सेल्लेण कुन्तेणेति।
इह च मायादिदोषप्रधाना जन्तवः शूकरत्वेनोत्पद्यन्ते। तत्र च पुत्रादिभिरपि भक्ष्यन्ते इति संसारासमञ्जसंप्रदर्शयन्नाह[म] उप्पन्नस्स पिउस्स वि, भवपरियत्तीइ सूयरत्तेण। पिट्ठिइमंसक्खाई, रायसुओ बोहिओ मुणिणा॥२२२॥
[उत्पन्नस्य पितुरपि भवपरिवर्ते शूकरत्वेन। पृष्ठिमांसानि खादी राजसुतो बोधितो मुनिना॥२२२॥]
[सूरराजकथा] [अव] इह कस्यचिद् राजपुत्रस्य सम्बन्धी पिता कर्मवशाद् भवान्तरे शूकरत्वेनोत्पन्नस्तस्य च सम्बन्धीनि दीर्घवर्द्धनरूपाणि पृष्ठमांसानि भुञ्जानः पुत्रो मुनिना प्रतिबोधित इति। भावार्थः कथानकादवसेयस्तद्यथाः-ऋषभपुरे भानुराजा राज्यं करोति। इतश्चैकः शूरनामा राजपुत्रो गोत्रिनिष्कासितश्चन्द्रवदना भार्यायुतस्तत्रागत्य तं नृपमवलगति। राजा तु कृपणत्वेन ग्रासं न दत्ते। सूरो भार्यामाह–“प्रिये! कृपणोऽयं नृपस्ततस्त्वमिह तिष्ठ, अहमयोध्यायामुदारनृपं सेविष्ये।” साह–“नैवं तत्र गतः त्वमन्यमहिलासक्तो मां त्यक्षसि, ततोऽहं सहैवागमिष्यामि।” अनेकधा (सा, प्रत्याय्यमाना सा न प्रत्येति। ततो तेन गोत्रदेवी आराधिता। तया सुरभिपुष्पमालाद्वयमर्पितम्, प्रोक्तम् “कण्ठे स्थाप्यमेतत्, यस्य कण्ठे स्थिता माला म्लास्यति तेन
१. 'मुच्छल्लिऊ' मु. अ.।, २. सद्धाइ भुंजमाणो इति पा. प्रतौ।