________________
६२
[हरिणो हरिण्याः कृते न पिबति हरिण्यपि हरिणकार्येण । तुच्छजले ब्रुडितमुखौ द्वावपि समकं विपन्नौ॥२१८॥]
भवभावना - २१९
[अव]सुगमा॥२१८॥
इह च हरिणत्वेन सर्वेऽपि जीवा अनन्तश उत्पन्नपूर्वाः, केवलमुदाहरणमात्रमुपदर्शयति
[मू] एत्थ य हरिणत्ते पुप्फचूलकुमरेण जह सभज्जेण ।
दुहमणुभूयं तह सुणसु जीव ! कहियं महरिसीहिं ॥ २१९॥ [अत्र च हरिणत्वे पुष्पचूलकुमारेण यथा सभार्येण। दुःखमनुभूतं तथा शृणु जीव ! कथितं महर्षिभिः ॥ २१९॥
[अव] सुगमा।
[पुष्पचूलकुमारकथा]
कथा-यथा पुष्पभद्रपुरे पुष्पदत्ता राज्ञी, पुष्पचूलः सुतः पुष्पचूला सुता। अथ जनन्यां वारयन्त्यां तौ मिथौ राज्ञा परिणायितौ विषयसुखमनुभवतः। राज्ञि मृते राज्ञी प्रव्रजिता। देवो जातः। पुष्यचूलाप्रतिबोधाय स्वप्ने नरकान् दर्शयति। सा राज्ञे कथयति। सर्वदर्शनिन आकार्य नरकस्वरूपं पृच्छति। ते स्वस्वशास्त्रोक्तं तत्स्वरूपं कथयन्ति। परं दृष्टनरकसंवादो न स्यात्। ततोऽन्निकापुत्राख्या जैनाचार्या आकार्य पृष्टाः। तैरागमोक्तं तत्स्वरूपमुक्तम्। संवादात् सा हृष्टा वक्ति - “भवद्भिरपि किं स्वप्ना लब्धाः ?” ते वदन्ति–“जिनागमचक्षुषा जानीमः । ” एकदा देवः स्वप्ने स्वर्दर्शयति। तथैव दर्शनिन आचार्याश्च आकार्य पृष्टाः। राज्ञ्याः प्रतिबोधो जातः। अन्यदा सा सभायां चित्रलिखितमृगमिथुनदर्शनाद् जातजातिस्मृतिः राज्ञेऽचीकथत्–“नर्मदातीरे मृगमिथुनम् अत्यन्तानुरक्तं मुनिदर्शनप्राप्तजिनधर्मं ग्रीष्मे तृषार्तं जले निमग्नमुखम् कैककृतेऽपीतजलं विपन्नम्।” आर्या जङ्घाबलक्षीणाः परि(?) स्थिताः पुष्पचूलानीतं भैक्ष्यमुपभुञ्जते। साध्व्याः केवलमुत्पन्नं ततो यद्यत्प्रायोग्यं मन इप्सितं भक्तपानौषधाद्यानयति। तैरुक्तम्–“ -- “मम मनोगतभावं कथं जानासि ?” साह–“ -“ज्ञानेनाप्रतिपातिना।” ततः संविग्ना आचार्याः क्षमयित्वा भणन्ति - “मम केवलं कदोत्पत्स्यते? ।” सा वक्ति- “गङ्गामुत्तरतां भवतां ज्ञानं भावि।” ततो नावमारूढा यतो यतो ते नावमुपविशन्ति, ततो नौर्मज्जति। नौर्वाहकैर्गङ्गामध्ये क्षिप्ताः जलजीवानुकम्पाध्यानादन्तकृ[त्केवलिनो जा]ताः । पुष्पचूलः श्रावकधर्ममाराध्य वैमानिकदेवो जातः । इति पुष्पचूलकथा॥२१९॥