________________
भवभावना - २०८
किमिति पशुभवेऽनार्यैर्भक्षितः ? किमर्थं च बलिविधानेषु दत्तः ? इत्याह[मू] ऊरणयछगलगाई, निराउहा नाहवज्जिया दीणा । भुंजंति निग्घिणेहिं, दिज्जंति बलीसु य न वग्घा ॥ २०६॥ [ऊरणकछगलकादयो निरायुधा नाथवर्जिता दीनाः ।
भुज्यन्ते निर्घृणैः दीयन्ते बलिषु न च व्याघ्राः॥२०६॥]
[अव] ऊरणको = गड्डरको लोकरूढछगल आदिशब्देन हरिणशशकादिपरिग्रहः। एत एवं निर्घृणैर्भुज्यन्ते। अत एव बलिषु दीयन्ते। कुत इत्याह-यतो निरायुधा नाथवर्जिता दीनाश्च, न तु व्याघ्रसिंहादयः, तस्य नखदंष्ट्राद्यायुधत्वात् स्वयमपि महापराक्रमत्वेन भयजनकत्वादिति॥२०६॥
अथ पशुघातस्तेषां पुरस्तादनन्तफल इत्याह
[मू] पसुघाएणं नरगाइएसु आहिंडिऊण पसुजम्मे। महुविप्पो व्व हणिज्जइ, अणंतसो जन्नमाईसु॥२०७॥
[पशुघातेन नरकादिषु आहिण्ड्य पशुजन्मनि। मधुविप्र इव हन्यतेऽनन्तशो यज्ञादिषु॥ २०७॥] [अव]गतार्था।
५९
[मधुविप्रकथा]
कथा चेयं ज्ञातव्या–राजगृहे नगरे मधुविप्रो यज्ञकर्मकरः। अजादीन् हत्वा महापापानि कृत्वा, मृत्वा नरकं गतः। पुनरजो जातः। यज्ञे हतो मृतः। पुनरजो यज्ञे यज्ञे हतो मृत्वा अजोऽजनिः। एवं प्रभूता भवा भ्रमिताः । एकदा यज्ञे हन्यमानः केवलिना स्मारितः पूर्वभवान्। गृहीतानशनो देवो जातः । इति मधुविप्रकथा ॥ २०७॥
अथ हरिणमधिकृत्याह
[] रन्ने दवग्गिजालावलीहिं सव्वंगसंपलित्ताणं ।
हरिणाण ताण तहौं दुक्खियाण को होइ किर सरणं ? ॥२०८॥ [अरण्ये दवाग्निज्वालावलिभिः सर्वाङ्गसम्प्रदीप्तानाम् ।
हरिणानां तेषां तथा दुःखितानां को भवति किल शरणम् ? ॥२०८॥]
१. 'सह दु' मु.अ.