________________
भवभावना-२०१
८७
भोक्तुमुपविष्टः उत्सङ्गे सुतं मुक्त्वा। शुनी गृहद्वारे तिष्ठति। इतस्तत्र ज्ञानी मुनिर्भिक्षार्थमागतस्तत्स्वरूपं ज्ञात्वा भिक्षामलात्वा निर्गतः। स पृष्ठौ गतः। पृच्छति-“भिक्षां किं न गृहीता?” स आह–“असमञ्जसं दृष्ट्वा।” “किं तत्?।” स आह–“पितुर्मासं त्वया भक्ष्यते, माता शुनी, वैरी उत्सङ्गे निवेशितः।” स आह“कथमेतत्?।” ज्ञानी यथास्थितं प्रोचे। महेश्वरदत्तो दीक्षां लात्वा स्वरगात्। इति समुद्रवणिक्कथा॥१९७॥ ____ अथोष्ट्रमधिकृत्याह[] उयरे उंटकरकं, पट्टीए भरो गलम्मि कूवो य। उज्झं मुंचइ पोक्करइ, तहा वि वाहिज्जए करहो॥१९८॥
[उदरे औष्ट्रकरकं पृष्ठे भारो गले कूपश्च। ।
ऊर्ध्वं मुञ्चति पूत्करोति तथापि वाह्यते करभः॥१९८॥] [मू] नासाएँ समं उठें, बंधेउं सेल्लियं च खिविऊण। लज्जूए अखिविज्जइ, करहो विरसं रसंतोऽवि॥१९९॥
नासिकया सममोष्ठं बद्ध्वा शैलकं च क्षिप्त्वा।
रज्ज्वा च क्षिप्यते करभो विरसं रसन्नपि॥१९९॥] [मू] गिम्हम्मि मरुत्थलवालुयासु जलणोसिणासु खुप्पंतो। गरुयं पि हु वहइ भरं, करहो नियकम्मदोसेण॥२००॥
[ग्रीष्मे मरुस्थलवालुकासु ज्वलनोष्णासु मज्जन्।
गुरुकमपि खलु वहति भारं करभो निजकर्मदोषेण।।२००॥] [अव] सुगमा। नवरं यो गलिरुष्ट्रो भवेत् स क्षिप्तभारमार्गे प्रस्थितानामुपविशति ततस्तस्योदरेऽतितीक्ष्णास्थिसङ्घातरूपमुष्ट्रकलेवरं बध्यते। तेन बद्धेन दयमान उपवेष्टुं नशक्नोति गले चघृतादिकुतपो बध्यते॥२००॥ ___केन च पुनः कर्मणा जन्तवः करभेषु जायन्ते? तदाह[मू] जिणमयमसद्दहंता, दंभपरा परधणेक्कलुद्धमणा। अंगारसूरिपमुहा, लहंति करहत्तणं बहुसो॥२०१॥
[जिनमतमश्रद्दधाना दम्भपराः परधनैकलुब्धमनसः। अङ्गारसूरिप्रमुखा लभन्ते करभत्वं बहुशः॥२०१॥]