________________
५६
भवभावना-१९६
[मू] विहियपमाया केवलसुहेसिणो चिन्नपरधणा विगुणा। वाहिज्जंते महिसत्तणम्मि जह खुड्डओ विवसो॥१९६॥
[विहितप्रमादाः केवलसुखैषिणः चीर्णपरधना विगुणाः। वाह्यन्ते महिषत्वे यथा क्षुल्लको विवशः॥१९६॥]
क्षुल्लककथा] [अव] कथानकं चेदम् वसन्तपुरे देवप्रियः श्रेष्ठी। यौवने भार्या मृता। पुत्रेणाष्टवार्षिकेण प्रव्रजितः। इतश्च स क्षुल्लकः परिषहैर्बाध्यमानो वक्ति–“तात! न शक्नोमि उपानहौ विना प्रव्रजितम” मोहेन पिता ते अनुजानाति। पुनर्वक्ति “तात! न शक्नोमि शीर्षे सोढ्मातपम्” पिता शीर्षे छत्रमनुजानाति। पुनर्वक्ति “तात! न शक्नोमि भिक्षाटनं कर्तुम्” ततः पिता आनीय दत्ते। एवं भूमौ न संस्तारयितुं शक्नोति। ततः पिता काष्टफलकमर्पयति। एवं लोचस्थाने क्षौरं कारयति। प्रक्षालयत्यङ्गं प्रासुकनीरेण। पुनर्वक्ति–“तात! न शक्नोमि ब्रह्मव्रतं पालयितुम्।” ततोऽयोग्योऽयमिति पित्रा निष्कासितः। मृत्वा महिषो जातः। पिता चारित्रमाराध्य देवो जातः। अवधिना सुतं महिषं पश्यति। सार्थवाहरूपं कृत्वा तं महिषं गुरुभारं वाहयन्–“तात न शक्नोमि” इत्यादि पूर्वभवोक्तं पुनः पुनः कथयन् स्मारयति। तस्य जातिस्मरणमुत्पन्नम्। गृहीतानशनो महिषो मृत्वा वैमानिकदेवो जातः। इति क्षुल्लककथा॥१९६॥ [v] काउं कुडुंबकज्जे, समुद्दवणिओ व्व विविहपावाइं। मारेउं महिसत्ते, भुंजइ तेण वि कुटुंबेण॥१९७॥
[कृत्वा कुटुम्बकार्याणि समुद्रवणिगिव विविधपापानि।
मारयित्वा महिषत्वे भुज्यते तेनापि कुटुम्बेन॥१९७॥] [अव]
[समुद्रवणिक्कथा] कथा चेयम् ताम्रलिप्त्यां समुद्रवणिग् महारम्भपरिग्रहो बहुला भार्या। महेश्वरदत्तः सुतः गङ्गिला भार्या। समुद्रवणिग् महारम्भपरिग्रहो बहुपापानि कृत्वा महिषो जातः। बहुला मृत्वा तत्रैव शुनी जाता। गङ्गिला स्वैरिणी कुशीला अन्यदा रात्रौ तां भुक्त्वा कश्चिद्विटो गच्छन् महेश्वरदत्तेन दृष्टो हतो मृत्वा गङ्गिलायाः सुतो जातः। जातोऽष्टवार्षिकः। अन्यदा पितुः संवत्सरदिने तेन पितृजीव एवं महिषो विनाशितः। स