________________
८४
भवभावना-१८९
यथास्थिततद्वृत्तान्तम्। साह–“मा विषादीः, सा (माम्) पुंवेषेण तत्र प्रेषय यथा सर्वं स्वस्थं स्यात्।” प्रतिपन्नं तेन। बहुपण्यभृतं पोतं लात्वा नृवेषागता सा तत्र। तथैव निमन्त्रितो भोजनाय परिव्राजिकया। तथैव स्वर्णदेवी स्थापिता। तदुत्तारके दृष्टा च सरस्वती नियुक्तछद्मनरैः सा। क्षिप्तस्तैस्तदाज्ञया रहस्तस्या एव गृहे। तथैव विवदने शोधनेन लब्धा सा सर्वा श्रीः सरस्वत्यात्ता। दासीकृतं परिव्राजकादि। तस्याः पादौ देवदत्तस्तलघट्टयति। सर्वां श्रियं गृहीत्वा नृपोपरोधात् परिव्राजिकां मुक्त्वा सदेवदत्ता स्वपुरं गता। स्वगृहे स्वं रूपं प्रकाश्य भर्तुः पादलग्ना क्षामयति स्म। “स्वामिन्! अनुजानीहि माम्, दीक्षां गृह्णामि, पूर्णो मेऽवधिः, बाल्यादपि विरक्ताहं प्रजन्तेछुः (प्रव्रज्येप्सुः), अनादिभवाभ्यस्तेन स्त्रीत्वसुलभेन चापलेन मयैवैतावत्कृतम्” तद्वचसा सोऽपि विरक्तः। पित्रा निवार्यमाणोऽपि सजायः प्रव्रज्य स्वरगात्। पिता तु जिनधर्मोपहास्यादिदोषदुष्टो विकलेन्द्रियेषुभवं बम्भ्रमीति। इति प्रियङ्गुवणिक्कथा॥१८८॥
उक्ताः सोदाहरणाः विकलेन्द्रियाः। अथ पञ्चेन्द्रियानधिकृत्याह[म] पंचिंदियतिरिया वि हु, सीयायवतिव्वछुहपिवासाहि। अन्नोऽन्नगसणताडणभारुव्वहणाइसंतविया॥१८९॥
पञ्चेन्द्रियतिर्यञ्चोऽपि खलु शीतातपतीव्रक्षुत्पिपासाभिः।
अन्योऽन्यग्रसनताडनभारोद्वाहनादिसन्तापिताः॥१८९॥] [अव] पञ्चेन्द्रियतिर्यञ्चोऽपि, न केवलम् एकेन्द्रिया इत्यपिशब्दार्थस्तेन जलचरस्थलचरखेचरभेदात् त्रिधा॥१८९॥
तत्रव्यवहारे प्रायः स्थलचरखरवृषभादय उपयुज्यन्ते। अतस्तानधिकृत्याह[] पिढें घटुं किमिजालसंगयं परिगयं च मच्छीहिं। वाहिज्जंति तहा वि हु, रासहवसहाइणो अवसा॥१९०॥
[पृष्ठं घृष्टं कृमिजालसङ्गतं परिगतं च मक्षिकाभिः।
वाह्यन्ते तथापि खलु रासभवृषभादय अवशाः॥१९०॥] [मू] वाहेऊण सुबहुयं, बद्धा कीलेसु छुहपिवासाहिं। वसहतुरगाइणो खिज्जिऊण सुइरं विवज्जंति॥१९१॥
[वाहयित्वा सुबहुकं बद्धाः कीलेषु क्षुत्पिपासाभ्याम्। वृषभतुरगादयः खित्त्वा सुचिरं विपद्यन्ते॥१९१॥]