________________
भवभावना १८८
यैर्हेतुभिरेतेषु जीवेषु भ्रमन्ति तान् सोदाहरणान् प्राह[मू] जिणधम्मुवहासेणं, कामासत्तीइ हिययसढयाए । उम्मग्गदेसणाए, सया वि केलीकिलत्तेण ॥ १८७॥
[जिनधर्मोपहासेन कामासक्त्या हृदयशठतया। उन्मार्गदेशनया सदापि केलीकीलत्वेन॥ १८७॥]
[मू] कूडक्कय अलिएणं, परपरिवारण पिसुणयाए य। विगलिंदिएसु जीवा, वच्चंति पियंगुवणिओ व्व ॥ १८८॥
[कूटक्रयालीकेन परपरिवादेन पिशुनतया च।
विकलेन्द्रियेषु जीवा व्रजन्ति प्रियङ्गुवणिगिव॥१८८॥]
[अव]सुगमे।
५३
[प्रियङ्गुवणिक् कथा]
कथानकं चेदम् - पोतनपुरे प्रियङ्गवणिग् मिथ्यात्वी जिनधर्मोपहासि प्रियमरि(ती) भार्यायामत्यासक्तः। असत्यवादित्वपैशून्यादिदोषः, नास्तिकमताश्रितस्तत्पुत्रो देवदत्तः । सुरसुन्दर श्रेष्ठिसुता सरस्वती । अन्येऽपि च लेखशालायां पठन्ति । अन्यदा पण्डितं भार्यां कुट्टयन्तं दृष्ट्वा छात्रा निवारयन्ति। सरस्वती तु “त्वं किमुदासीना?” इति देवदत्तेन पृष्टा साह-“सा किं महिला भण्यते? यस्याः पादौ भर्ता दास इव न घट्टयति आपद्गतं भर्तुः साहाय्यं च न विधत्ते ” इति श्रुत्वाचिन्ति-नूनमियं गर्विता तदिमां विवाह्य त्यक्ष्यामि येन गर्वफलं लभते । तदभिप्रायस्तयापि ज्ञातः । समये सा तेन विवाह्य त्यक्ता। अन्यदा धनार्जनाय देवदत्तः परद्वीपे गतस्तत्रैका परिव्राजिका कुटबुद्धिनिपुणा वैदिशिकेभ्यो वञ्चनेन बहुस्वर्णकोटिमती राजमान्यास्ति। तद्बुद्ध्या राजारीन् जयति। एकदा भोजनार्थमामन्त्रितो देवदत्तस्तया तद्गृहे गतः। तया च स्वजनपार्श्वात् छद्मं तदुत्तारके स्वर्णकुम्भः स्थापितः। तस्मिन् भुक्त्वा स्वस्थानं गते पृष्ठौ तया जनः प्रहितः। प्राह - “एकस्वर्णकुम्भो नष्टस्त्वज्जनैर्गृहीतः तव स्थानेऽस्ति समर्प्यताम्।” स प्राह–“नास्त्यत्र” विवादे सा प्राह–“यदि त्वत्स्थाने न स्यात् तदाहं सर्वस्वं तेऽर्पयामि दासीभवामि च। यदा स त्वत्स्थाने स्यात् तदा तव सर्वस्वं गृह्णामि, त्वां च दासी करोमि च” नृपाद्याः साक्षिणः । प्राप्ते स्वर्णकुम्भे तयात्तं सर्वस्वं न्यस्तश्च दासत्वे। दुःखितेन तेन पितुः स्वरूपं ज्ञापितम्। स दुःखी जातः। सरस्वत्या दुःखहेतुः पृष्टः स प्राह