SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भवभावना-१८५ एतेष्वेकेन्द्रियेषु जीवा यथोत्पद्यन्ते तथा दर्शयन्नाह[मू] पुत्ताइसु पडिबद्धा, अन्नाणपमायसंगया जीवा। उप्पज्जति धणप्पियवणिउव्वेगिदिएसु बहु॥१८५॥ [पुत्रादिषु प्रतिबद्धा अज्ञानप्रमादसङ्गता जीवाः। उत्पद्यन्ते धनप्रियवणिगिव एकेन्द्रियेषु बहु॥१८५॥] धनप्रियवणिक्कथा] [अव] कथा चेयम् कुशार्तदेशे शौर्यपुरे धनप्रियस्तज्जाया धनवती तयोर्जम्बूदेवताराधनेन पुत्रो जातः। परं सर्परूपस्ततो धनप्रियः पुनर्धनवती च देवीमाराध्याह-"किमेतत्?” साह-“तव प्राग्भवे भार्यया सपत्न्या रत्नमपहृतं विंशतिप्रहरान्ते च प्रत्यर्पितम्, तत्कर्मणा सपत्न्या व्यन्तर्या सीकृतः, विंशतिवर्षान्ते पुंरूपो भावीति।” श्रेष्ठी दुग्धपानकरण्डप्रक्षेपादिना पालयति। विंशतिवर्षान्ते पुंरूपो जम्बूदत्त इति नाम कृतम्। नागश्रीकन्यां परिणायितः। चत्वारोऽस्य पुत्रा जाताः। क्रमेण परिणायिताश्च। धनप्रियं विना सर्वे जिनधर्मवासिताः। प्रव्रज्य जम्बूदत्तः सजायः सिद्धः। अन्ये स्वर्जग्मुः। धनप्रियस्तद्वियोगार्तो धर्ममजानन् [आश्रद्दधानो महामोहमूढः मह पुत्ता मह लच्छी, मह रोहिणी गेहमाईआ। इच्चाइअ अट्टवसट्टमणो मरिउं एगिदिएसु गओ॥ (हेम.मल.व.) ततोऽनन्तभवं भ्रान्तः। इति धनप्रियकथा॥१८५॥ उक्ताः सोदाहरणा एकेन्द्रियाः। अथ विकलेन्द्रियस्वरूपमाह[म] विगलिंदिया अवत्तं, रसंति सुन्नं भमंति चिटुंति। लोलंति घुलंति लुढंति जंति निहणं पि छुहवसगा॥१८६॥ [विकलेन्द्रिया अव्यक्तं रसन्ति शून्यं भ्राम्यन्ति तिष्ठन्ति। लोलन्ति घुलन्ति लुठन्ति यान्ति निधनमपि क्षुद्वशगाः॥१८६।] [अव] विकलेन्द्रियाः = द्वित्रिचतुरिन्द्रियाः कृमिशङ्खकीटिकाभ्रमरादयः करणपाटवाभावादव्यक्तं रसन्ति = शब्दयन्ति, मनसोऽभावादप्रेक्षापूर्वकारितया शून्यमेव भ्रमन्ति। कदाचिदेकस्थाने एव तिष्ठन्ति। कर्दमादौ लोलन्ति घुलन्ति = निम्नोन्नतादौ लुठन्ति। क्षुधार्ता घृततैलादिषु पतिता विनाशमपि यान्तीत्यर्थः॥१८६॥ १. मम पुत्रा मम लक्ष्मीर्मम गृहिणी गृहादीनि। इत्यादिरावर्तवशामिनो मृत्वैकेन्द्रियेषु गतः ॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy