________________
भवभावना-१८४
[म] गोला होंति असंखा, होति निगोया असंखया गोले। एक्केक्को य निगोदो, अणंतजीवो मुणेयव्वो॥१८३॥
[गोलका भवन्त्यसङ्ख्या भवन्ति निगोदा असङ्ख्यका गोले।
एकैकश्च निगोदोऽनन्तजीवो ज्ञातव्यः॥१८३॥] [अव] असङ्ख्येयानां जीवसाधारणशरीराणां समानावगाहावगाढानां समुदायो गोलक इत्युच्यते। हुन्तो ति (होंति त्ति)। अनन्तानां जीवानां साधारणं शरीरमेव निगोद इत्युच्यते। ते चैवम्भूता निगोदा एकैकस्मिन् गोलकेऽसङ्ख्यया भवन्ति। एकैकश्च निगोदोऽनन्ता जीवा यत्रासावनन्तजीवो मन्तव्यः। एते च गोला द्विविधाः। सूक्ष्मा बादराश्च। तत्र सूक्ष्माः प्रत्येकमङ्गुलासङ्ख्येयभाग-मात्रावगाहिनोऽसङ्ख्येयाश्चतुर्दशरज्ज्वात्मकेऽपि लोके निरन्तरं भवन्ति। बादरा अपि बृहत्तराङ्गुलास
ङ्ख्येय-भागमात्रावगाहिनोऽसङ्ख्येयाः पृथिव्यादिमात्राश्रिता भवन्ति। सेवालसूरणाकादिका मन्तव्याः। अत एवैते सर्वे लोके न भवन्ति. मृत्तिकाजलाद्यभावे तेषामसम्भवाद। अत्र बहुवक्तव्यता सा ग्रन्थगहनताप्रसङ्गात् नोच्यते॥१८३॥
एते च निगोदाः सूक्ष्मा बादराश्चान्तर्मुहूर्तायुष एव भवन्ति। अस्य चान्तमुहूर्तस्यासङ्ख्येयभेदास्तत्र षट्पञ्चाशदधिकावलिकाशतद्वयमाने क्षुल्लकभवग्रहणमप्यायुर्बहूनामप्येतेषां भवतीत्याह[म] एगोसासम्मि मओ, सतरस वाराउऽणंत खुत्तो वि। खोल्लगभवगहणाऊ, एएसु निगोयजीवेसु॥१८४॥
[एकोच्छवासे मृतः सप्तदश वारा अनन्तकृत्वोऽपि।
क्षुल्लकभवग्रहणायुः एतेषु निगोदजीवेषु॥१८४॥] [अव] एतेषु निगोदजीवेषु परिवसन् जीवोऽत्र नीरोगस्वस्थसम्बन्धिन्येकस्मिन्नुच्छ्वासनिःश्वासे क्षुल्लकभवग्रहणायुः सप्तदशवारान् मृत एकोच्छवासनिःश्वासे स्थूलमाने एतावतां क्षुल्लकभवग्रहणानां भावात्सूक्ष्मेक्षितया चागमादेरवसेयम। कियतीरास्तत्रैव पुनः पुनः सत्येवेत्थं मृतः। अनन्तकृत्वोऽप्य-नन्तशोऽयप्यनन्तवारा अपीत्यर्थः॥१८४॥
१. वारा अणंत इति पा. प्रतौ।,