SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भवभावना-१७९ [म] एगिदियविगलिंदियपंचिं()दियभेयओ तहिं जीवा। परमत्थओ य तेसिं, सरूवमेवं विभावेज्जा॥१७९॥ [एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदतस्तत्र जीवाः। परमार्थतश्च तेषां स्वरूपमेवं विभावयेत् ॥१७९॥] [अव| एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिकायरूपाः। विकलेन्द्रियाः द्वित्रिचतुरिन्द्रियभेदात्त्रेधा। तत्र ___ कृमिशङ्खमाटवहनादयो द्वीन्द्रियाः। कुन्थुपिपीलिकादयस्त्रीन्द्रियाः। वृश्चिकादयश्चतुरिन्द्रियाः। पञ्चेन्द्रिया द्विधा सम्मूर्च्छिमा गर्भजाश्च। आधा दर्दुरादयः, अपरे गवादयः। तेषां च सुखदुःखमधिकृत्य स्वरूपमेवं परमार्थतो विभावयेत् = चिन्तयेदित्यर्थः॥१७९॥ किं पुनस्तत्स्वरूपमित्याह[म्] पुढवी फोडणसंचिणणहलमलणखणणाइदत्थिया निच्चं । नीरं पि पियणतावणघोलणसोसाइकयदुक्खं॥१८०॥ [पृथ्वीस्फोटनसञ्चयनहलमर्दनखननादिदुःस्थिता नित्यम्। नीरमपि पानतापनघोलनशोषादिकृतदुःखम्॥१८०॥] [मू] अगणी खोट्टणचूरणजलाइसत्थेहिं दुत्थियसरीरो। वाऊ वीयणपिट्टणऊसिणाणिलसत्थकयदुत्थो ॥१८१॥ [अग्निः सन्धुक्षणचूर्णनजलादिशस्त्रैः दुःखितशरीरः। वायुः वीजनपिट्टनोष्णानिलशस्त्रकृतदौस्थ्यः॥१८१॥] [मू] छेअणसोसणभंजणकंडणदढदलणचलणमलणेहि। उल्लूरणउम्मूलणदहणेहि य दुक्खिया तरुणो॥१८२॥ [छेदनशोषणभञ्जनकण्डनदृढदलनचरणमर्दनैः। उत्कर्तनोन्मूलनदहनैश्च दुःखितास्तरवः॥१८२।।] [अव] तदेवमेते पृथिव्यादयः स्फोटनादिदुःस्थिता निश्चयतः सदैव दुःखिता एव। व्यवहारतस्तु चिन्तामण्यादीन् पूज्यमानान् दृष्ट्वा कश्चित् तत्त्वावेदी सुखितानप्येतान् मन्यते इति परमत्थओ य तेसिं इत्युक्तम्। १. अत्र मात्राधिक्यं प्रतीयते।, २. दुक्खो इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy